________________
नामचतुष्टयाध्याये पञ्चमः समासपादः
२९१ ताद्धाच्छस्त्री धर्मिणि देवदत्तार्थे वर्तते शस्त्रीव शस्त्रीति तदा समासः । श्यामाशब्दसान्निध्यात् (सादृश्यात्) इह श्यामगुणवत्तया देवदत्तोपमीयते न तैक्ष्ण्यादिगुणवत्तया । प्रसिद्धिवशाच्च । यथा चन्द्रमुखीति चन्द्रे गुणाः परिमण्डलादयः सन्ति, तथापि प्रियदर्शनतयैव गम्यते । उपमानानि सामान्यवचनैरेव समस्यन्ते । श्यामस्योभयत्र भावात् तद्वाचकश्च श्यामशब्दः सामान्यवचन इति प्रसिद्धः । तथा चोक्तम् –
वृत्तौ विशेषवाचित्वं भेदे सामान्यवाचिता। उपमानसमासादौ श्यामादीनामुदाहृता॥
(वा० ५० ३।१४।३७) इति । फाला इव तण्डुला इत्ति समासो न स्यात् । फालवदीर्घास्तण्डुला इति जातिवचना इति । पुरुषव्याघ्र इति पूर्ववद् व्याख्यानम् । व्याघ्र इव व्याघ्र इत्यादि । पुरुषव्याघ्र इव शूर इति सापेक्षत्वादसमास इति उपमितमुपमानैः समस्यते यथेष्टमिति किमुपमितं व्याघ्रादिभिः सामान्याप्रयोग इति वचनेन । पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीरास्तुल्याधिकरणेन समस्यन्ते तेनैव । श्रेण्यादयश्च्व्यर्थवृत्तयः कृतादिभिः समस्यन्ते, तेनैवाभिधानात् । श्रेणिपूगकूटराशिनिचयनिधामेन्द्र (निधनेन्द्र) देवमुण्डभूतश्रमणचपलनिपुणाः। अन्येऽपि श्रेण्यादयः प्रयोगगम्याः । कृतमितमतभूतभक्तसमाज्ञातसमाम्नातसमाख्यातसंभावितावधारिताविकल्पितनिराकृतोपाकृताः । अन्येऽपि कृतादयः प्रयोगगम्याः इत्यभिधानमेवाश्रयः। च्च्यन्तानां नु नित्यसमास एव। श्रेणीकृता इति। यदा तु श्रेणयः कृताः दण्डीकृताः (दण्डिताः) इति तदानीं नीलोत्पलवत् समासेन भाव्यमेव । अनेकार्थत्वात् करोतेर्दण्डादिषु वृत्तिः। कृताकृतमित्यादि । एकस्यावयवधर्मेण समुदायस्य व्यपदेशात् कृताकृतत्वं कृतभागसंबन्धात् कृतम् अकृतभागसंबन्धाच्च तदेवाकृतम्। यदर्थं वा कृतं तत्रासमर्थत्वात् तदेवाकृतम्। यथा पुत्रकार्याक्षमत्वात् पुत्रोऽप्यपुत्र इति । अत्रोत्तरपदस्य क्तान्तस्य नजैव विशेषण इति समासः। किं "क्तेन नविशिष्टेनानञ्" इत्युक्तेन । यथा कृतं च तदकृतं चेति कृताकृतम्। एकदेशस्येष्टस्य करणादनिष्टस्य चैकदेशस्याकरणाादिति।
एवं 'भुक्तापभुक्तम्, भुक्तविभुक्तम्' इत्यपि भवति ! विशब्दोऽत्राशोभनत्वं द्योतयति। अथ वा भुक्तं च तदेकदेशस्याभ्यवहृतत्वाद्, विभुक्तं च तदेकदेशस्य विशेषेणाभ्यव