________________
कातन्त्रव्याकरणम्
२९०
ननु चोत्पलशब्दोऽपि नैव द्रव्यशब्दो जातिनिमित्तत्वात्, कथमस्य प्राधान्यम् । अथ जातिमतो द्रव्यस्याभिधानाद् द्रव्यशब्दो नीलशब्देऽपि प्रसङ्गः । सोऽपि हि गुणनिमित्तः सन् नीलगुणयुक्तस्य द्रव्यस्याभिधानाद् द्रव्यशब्दः स्यात् । नैतदेवम्, जातिरुत्पत्तेः प्रभृत्यादिविनाशं न जहाति द्रव्यं जातिनिमित्तोऽप्यविनाभावाद् द्रव्यशब्दः । गुणाः पुनरनपायिनश्चापायिनश्च सत्यपि द्रव्ये निवर्तन्ते इति । न तन्निमित्तशब्दो द्रव्यशब्दः, व्यभिचारादिाते । कथं 'विन्ध्यगिरिमुल्लध्य गतो जयाय न मेरुमहीभृतः, स देवदारुद्रुमवेदिकायाम्' इति ? सत्यम् । यथाभिधानमेव समासः । न चेहोभयविशेषणविशेष्यभाव आदृत इति । अन्यस्तु जल्पति-विन्ध्यादयो मनुष्याख्या अपि सन्तीति न विरुध्यते । अस्तस्य पर्वतः अस्तपर्वतः, उदयस्य गिरिः उदयगिरिरिति मन्यते । कृष्णसर्प इत्यादि । समुदाया एवैते विशिष्टजातिवचना इति वाक्यं न भवति । तथैकाधिकरणत्वादित्यादि । कृष्टश्चासौ मदीकृतश्चेति य एव पूर्वं कृष्टः स एव मटीकृत इति गम्यते ।
पूर्वकालैकसर्वजरत्पुराणनवकेवलानां तुल्याधिकरणे तेनैव समासः सिद्ध इति । पूर्वा चासौ इषुकामशमी चेति । सप्त च ते ऋषयश्चेति विग्रहः । नित्यसमासश्चायं न हि संज्ञा वाक्यं स्यात् । असंज्ञायामपि क्वचित् समासो दृश्यते 'पूर्वपुरुषः' इत्यादौ । क्वचिन्न दृश्यते – 'उन्नरा वृक्षाः, पञ्च ब्राह्मणाः' इति । तस्माद् दिक्संख्ये संज्ञायां समस्येते इत्यनर्थकम् । याज्ञिकश्चासौ कितवश्चेति याज्ञिककितवः । किं तवास्तीति धनमेवापेक्षमाणो द्यूते प्रवर्तते न जात्यादिकम्, तथा अयाज्ययाजने योऽसौ याज्ञिकः स कितव इति । कितवो याज्ञिकश्चात्र विशेषणतयाऽभिधीयते । कितवस्य विशेष्यस्य कथं पूर्वनिपातप्रसङ्ग इति । कुत्सितगची कुत्सितवचनैरेव समस्यतेऽभिधानादिति कुत्स्यन्ते एभिरिति कुत्सनानि । तेन नीलोत्पलवत् समास इति कुत्सितब्राह्मणश्चौरवैयाकरणः । न वैयाकरणत्वं शब्दप्रवृत्तिनिमित्तं ब्राह्मणोऽपि कुत्स्यते चौरोऽपि सम्यग् व्याकरणं देत्ति अधीते वा । किन्तु यस्य तद् वैयाकरणत्वं स कुत्स्यते वैयाकरणत्वं तस्योपलक्षणम् । एवं "पापाणके कुत्सने कुत्सितैः" (अ०२।१।५४) इति प्रवृत्तिनिमित्तमेव कुत्स्यते ।
क्वचिदित्यादि । उपमानभूतम् उपमानरूपम् । 'शस्त्रीव श्यामा' इत्युपमानोपमेयभावोपदर्शनमेतत् । समासवाक्यं तु शस्त्री चासौ श्यामा चेति । यदा शस्त्रीशब्द