________________
२८९
नामचतुष्टयाण्याये पचमः समासपादः निमित्तैरभिसंबन्धाद् या निमित्तस्वरूपता। तयैकस्यापि नानात्वं रूपभेदात् प्रकल्प्यते ॥ द्रव्यावस्था तृतीया तु यस्यां संसृज्यते द्वयम् ।
तयोरवस्थयोर्भेदाद् आश्रयत्वेन युज्यते ॥ (वा० प० ३।१४ | १२-१४) इति बुद्धिभेदोऽयं दर्शितः। यथा त्रयाणां भुवनानां समाहारस्त्रिभुवनम् । एवम् अष्टकुलं पर्वतीयमिति ।
बुद्ध्यैक्यं भियते भित्रमेकत्वं चोपगच्छति। बुद्ध्यावस्था विभज्येत सा झर्थस्य विधायिका ॥
___ (वा० प० ३।१४।१५) इति । पदं यथैव वृक्षादिविशिष्टेऽर्थे व्यवस्थितम् ।
नीलोत्पलायपि तथा भागाभ्यां वर्तते विना ॥ (वा०प०३।१४।५३)। 'द्वे पदे' इति वचनाद् इह समास एव वर्तते इत्याह – यत्र समास इत्यादि । 'तक्षकः सर्पः, शिंशपा वृक्षः' इत्यसमास एव । उभयविशेषणविशेष्यभावे हि समासोऽयमभिधानाद् वाक्यमेव समासवादि। न हि तक्षकः सर्पत्वं व्यभिचरति, न च शिंशपा वृक्षत्वमिति । यदा तु तक्ष्णोतीति तक्षकः क्रियार्थः स्यादुपचारात् शिंशपापि फले । तदेतौ विशेष्याविति समास एव । न च आद्ये पक्षे तक्षकस्य सर्पताव्यभिचारात् शिंशपायाश्च वृक्षत्वाव्यभिचारात् सर्पवृक्षयोः प्रयोग एव नास्ति । सामान्याभिधानपूर्वके प्रक्रमे विशेषप्रयोगः । यथा ब्राह्मणमानय गार्यमिति । यदा तु प्रथमं विशिष्टमेव प्रयुज्यते तदा ब्राह्मणशब्दस्य कुतः प्रयोगः, उक्तार्थत्वात् ? सत्यम् । स्वरूपमात्रकथने प्रयोगो दृश्यते । यथा शीतं हिमम् उष्णोऽग्निरिति । तथा 'सर्पस्तक्षकः, वृक्षः शिंशपा' इति । तर्हि विशेषणत्वात् पूर्वनिपातः, 'नागृहीतविशेषणा बुद्धिर्विशेष्ये प्रवर्तते' इति उत्पलनीलम् इत्याद्यपि स्यात् । नैवम्, यद्यपि शब्दद्वारेण गुणस्य विशेष्यतया प्राधान्यं तथाप्यर्थद्वारेण लोके द्रव्यमेव प्रधानमिति । यथा 'शुक्लं पशुमालभेत' इति शुक्लाभावेऽन्यगुणोऽपि पशुर्गृह्यते . न तु विप्टकपिण्डादिः शुक्लगुणयुक्तोऽपि । न हि पिष्टकपिण्डीमालभ्यासौ कृती स्यात् ।