________________
२४४
कातन्त्रव्याकरणम् सखीत्यत्र व्यपदेशिवद्भावात् तदन्तता। इहापि अप्यधिकारः प्रवर्तते इत्याह – उत इत्यादि । बहुरित्यपीति न केवलं बह्वीत्यर्थः । बहुशब्दोऽयं विपुलवचनत्वाद् गुणवचन: । स्वस्येत्यादि । स्वनादयो हि प्रत्ययमन्तरेणैव विशिष्टं स्त्रीत्वं स्वभावाद् अभिदधतीति कुतो द्योतकतया विधीयमानस्य ईप्रत्ययस्यावसर इति भावः । पञ्चेत्यादि । इह पुनत्यस्यैव स्त्रीत्वस्याभावात् कथं द्योतकः प्रत्ययो युज्यते । ष्णान्ता हि संख्या स्त्रीत्वविशिष्टेऽप्यर्थे वर्तमानाः स्वभावादलिङ्गका एवेति न स्त्रियां वर्तन्ते इति । तथा चाह - ष्णान्ता : संख्या अलिङ्गका कत्यव्यययुष्मदस्मदश्चेति । तेन "षट् स्वनादिभ्यः' इति न वक्तव्यम् भवति । षकारनकारान्ताः संख्या षड् इत्युच्यते । सखीति नित्यार्थमिति । अन्यथा इदन्तत्वादिश्च क्तिवर्जिताद् वेत्यनेन विकल्पः स्यादित्यर्थः । नदादिराकृतिगण इति, यत्र क्वचित् स्त्रियाम् ईप्रत्ययो दृश्यते स नदादिरित्यर्थः ।। ३३५।
[क० च०]
नदा० । “वायन्स्यन्तृ०" इत्यत्र इकारोकारयोर्यत्ववत्वादेशे प्रमाणाभावाद् यकारवकारयोः कथं न स्यात् । नैवम् – “दिव उद् व्यञ्जने'' (२।२।२५) इति निर्देशान्न वकारान्तस्य विधिः। अतस्तदन्तस्यैव तत्साहचर्याद् यकारस्य न ग्रहणम्, किन्तु इकारस्यैव । तथा ह्रस्वयोरिकारोकारयोर्ग्रहणं न दीर्घयोः प्रथमोपस्थितत्वात् । तथा वाहुशब्द इत्यपि नाशङ्कनीयम् । तदा निःसन्देहार्थं पूर्वमेव पठेत् । अन्चि - इकारयोरेकस्वरसाहचर्याच्च । वस्तुतस्तु आचार्यपारम्पर्याद वाह उ इत्येव गृह्यते । तथा शन्तृङोऽन्तृस्वरूप इति नाशक्यते अन्चेरनुबन्धरहित इति निर्देशस्य साहचर्यात् । ऋकारोऽपि पृथगेव गृह्यते आचार्यपारम्पर्याच्च । खरुरियं पाण्डुरियम् इत्यतो न स्यादिति वृत्तिः । उतो गुणवचनाद् विकल्पेन ईप्रत्ययो भवतु तत्र खरुपाण्डुशब्दात् सूत्रे उद्ग्रहणान्नित्यम् ईप्रत्ययः स्यात् । नैवम्, सूत्रोपात्त - उकारग्रहणाद् उदन्ताद् ईप्रत्ययो भवन् गुणवचनादेव विकल्पेन स्यात् । एतत् सर्वमप्यधिकारादेव लभ्यते । न दु उतो गुणवचनादखरुसंयोगोपधाद् वेति वक्तव्यान्तरम् इति । ननु यद्यपि अधिकारादेतल्लभ्यते तदा सूत्रे किमुकारग्रहणेन ? सत्यम् । उकारोपादानम् उकारेण उकारान्तमात्रपरिग्रहार्थम्, न च तदन्तस्य । तेन वृत्तौ उदन्ते ‘पट्वी' इति दर्शितम् नातिपट्वीति । एवम् “इतश्च क्तिवर्जिताद् वा" इत्यत्रापि बोध्यम् ।