________________
२४५
नामचतुष्टयाध्याये चतुर्थः कारकपादः यद्यस्मिन् सूत्रेऽन्तग्रहणात् तदन्तपरिभाषाया अवकाशो नास्ति, किन्तु अन्तशब्दसंबन्धाद् अन्च्याद्यन्तस्यैव ग्रहणं तदा 'प्राची' इत्यत्रैव स्यात्, कथम् अतिप्राचीत्यादि ? सत्यम् । सूत्रे एतदेव इदुतोरुपादानं बोधयति - अन्येषामन्च्यादीनां तदन्तस्यापि भवतीति । अत एव वृत्तौ ‘अतिप्राची, अतिविदुषी' इत्यादिकं दर्शितम् इति हेमकरः। यद् वा कथं वृत्तौ अतिप्राचीत्यादिवद् अतिपट्वीति नोदाहृतम् ? सत्यम् । अधिकारात् सूत्रोपात्तोदन्तविधिर्भवन् यदि गुणवचन एव स्त्रियां वर्तते, तदैवेति । तेनातिक्रान्तः पटुर्यया अतिक्रान्ता पटुः स्त्री ययेत्युभयत्र अतिपट्वीति न भवति । आद्ये गुणवचनस्य स्त्रियामवृत्तित्वादन्ते यस्माद् ईप्रत्ययो विधातव्यः स यदि गुणवचनः स्यात् तदा ईप्रत्ययः । अत्र अतिपटुशब्दः स्त्रियां वर्तमानोऽपि द्रव्यवचनत्वान्न भवतीति । यैः प्राग् गुणमभिधायाभेदोपचाराद् द्रव्यमभिधीयते, ते गुणवचना इति । 'अतिपट्वी, अतिदाक्षी' इति नोदाहृतम् । यदा ‘अतिशायिता पट्वी' इत्यत्र गुणवचन एव स्त्रियां वर्तते, तदा ‘अतिपट्वी' इति भवत्येव ।
अथ मा भूद् वृत्तौ तदन्ते 'अतिपट्वी, अतिदाक्षी' इति कथनोदाहृतम् ? सत्यम् । ईकारग्रहणस्य विवरणस्वरूपम् "इतो मनुष्यजातेः" (अ० ४।१।६५) इति नित्यार्थं वक्तव्यान्तरं टीकायामुक्तम् । ततश्च मनुष्यजातिर्यदि स्त्रियां वर्तते तदैवायं विधिरिति । तेनातिक्रान्तो दाक्षिर्यया इत्यत्र न भवति, मनुष्यजातेः पुंसि वृत्तत्वात् । तथा अतिक्रान्ता दाक्षी ययेत्यत्रापि न भवति । यस्माद् ईप्रत्ययो विहितः स यदि मनुष्यजातिवाचकः स्यात् तदैवातिदाक्षिशब्दस्य मनुष्यजातित्वाभावान्न भवति । अत एव वृत्तौ अतिदाक्षीति नोदाहृतम् । यदा तु अतिदाक्षीति मनुष्यजातिवचनः स्त्रियां वर्तते, तदा अतिदाक्षीति भवत्येव । अतिधूलीत्यादिकं तु भवत्येवेति बाधकाभावात् । ननु यद्यन्तग्रहणात् तदन्तपरिभाषा नास्तीत्यस्मिन् सूत्रेऽन्तग्रहणात् तदन्तविधिर्भवन् प्राची इत्यत्रैव स्यात् कथम् अतिप्राचीति ? सत्यम् । अतिप्राचीत्यादेरपि अन्च्याद्यन्तता विद्यत एवेति को दोषः, तर्हि अन्तग्रहणेन किं कृतम् इति । नैवम्, 'बहुनदा भूमि' इति सिद्ध्यर्थमित्युक्तमेव । स्वसा दुहेत्यादि वृत्तिः। ननु कथमत्र प्रत्ययेन विना स्त्रीत्वाभिधानादिति सिद्धान्तितम् ।अतिमात्रेत्यत्र ईप्रत्ययेन विना स्त्री पुमान् वेति सन्देहः स्यात् । तथा 'भूमि-युवति' इत्यादिभ्योऽपि प्रत्यय विना स्त्रीत्वावगमाद् ईप्रत्ययो न स्यात् त्यन्तवर्जनवैयर्थ्याच्च ? सत्यम् । अतिमातेत्यादौ प्रत्ययं विनैव स्त्रियां प्रयोगस्य