________________
२४३
नामचतुष्टयाध्याये चतुर्थः कारकपादः स्वभावाज्जात्यनुवृत्त्या कुत्सां गमयति । दीर्घोच्चारणं नदीसंज्ञार्थम् । कप्रत्ययस्तु न स्यात् तत्र बहुलत्वात् । मनुष्यजातेरिति किम् ? धेनुः । कथम् अध्वर्युर्ब्राह्मणी चरणत्वाज्जातिः ? सत्यम्, व्यवस्थितविभाषयेति । अलाबूः, कर्कन्धूः । अप्राणिनामिति किम् ? कृकवाकुः । अरज्ज्वादिभ्य इति किम् ? रज्जुः, हनुः । मद्रौ बाहू यस्याः सा मद्रबाहुः । यथाकथंचित् समुदायसम्पादनाय व्युत्पत्तिः । कद्रुः, कमण्डलुः । संज्ञायामिति किम् ? वृत्तबाहुः, कद्रुः, कमण्डलुः । पॉश्वशुरयो:- ‘पशूः, श्वश्रूः' एतौ निपात्येते । करभस्येव ऊरुर्यस्याः सा करभोरूः। सहितोरू:, संहितोरू:, सहोरू:, शफोरूः, वामोरू:, लक्षणोरू: । गर्गस्यापत्यं पौत्रादि स्त्री गार्गी, वात्सी ।
षकारान्तस्यावटस्य च न भवति - पौतिमाष्या, आवट्या । पौत्रादिदृष्टादिति किम् ? गर्गादेराकृतिगणत्वात् कारुवाचिभ्योऽपत्यमात्रे ण्यः। तन्तुवायस्यापत्यं तन्तुवाय्या नापित्या, श्रुतत्वादायनो ण्यस्यैवान्त इति । गार्यायणी, पौतिमाष्यायणी, आवट्यायनी । वावचनं पावटार्थम् । गर्गाद्यन्तर्गणो लोहितादिः ।लोहितस्यापत्यं पौत्रादि स्त्री लौहित्यायनी ।शांसित्यायनी । मनायीशब्दात् मानय्यायनी । मनुशब्दात् मानव्यायनी (मानवीशब्दात् मानव्यायनी) । नित्यार्थं वचनम् । शकलान्तेभ्य इति किम् ? काण्ठ्यी, काण्ठ्यायनी। गर्गादेराकृतिगणत्वात् कुरोर्नकारादिभ्यश्चापत्यमात्रे ण्यः । कुरोर्ब्राह्मणस्यापत्यं स्त्री कौरव्यायणी | आसुरिशब्दादिनन्ताद् आसुरायणी | माण्डूकशब्दादणन्ताद् माण्डूकायनी । कथं कौरवी, "तस्येदम्' (२।६।७) इत्यणा सिद्धम् । नदादयो हि लोकोपचारात् सिद्धाः इति नदादिगणमग्रमेव स्वरूपमन्वाख्यातवान् । तथा चाभिधानकाण्डे सर्वमाहृतमिति नात्र न्यूनतादोषः । गणोदाहरणप्रपञ्चस्तु सुखप्रतिपत्त्यर्थ एव कृत इति ।। ३३५।
[वि० ५०]
नदा० । नद एवादिर्यस्य गणस्यासौ नदादिः। अञ्चिवाढ्यन्स्यन्तृसखिना एवान्ते येषां ते तथोक्ताः । नदादिश्च अञ्चिवायन्स्यन्तृसखिनान्ताश्चेति बहुव्रीहिगर्भो द्वन्द्वः । 'येन विधिस्तदन्तस्य' (कात० प० ३) इति सिद्धे यदन्तग्रहणं तदच्यादेरेव तदन्तार्थम् । नदादिः पुनरतदन्त एवेत्युदाहरति नदीत्यादि । 'नद, मह, भष, प्लव' इति पचादित्वादच् । तदन्ते तु न भवति बहुनदा भूमिः । प्रष्ठौहीति ! प्रष्ठो वहतीति । "वहश्च'' (४।३।६१) इति विण्, तदन्ताद् ई “वाहेर्वाशब्दस्यौः' (२।२।४८) ।