________________
२४२
कातन्त्रव्याकरणम् पुरुषः इति। विकल्पार्थमेवेदं वचनम् । द्वौ पुरुषौ परिमाणमस्याः द्विपुरुषी यष्टिः, द्विपुरुषा | तत्परिमाणादित्येव - पञ्चभिः पुरुषैः क्रीता पञ्चपुरुषा | केवली, मामकी । त्वन्मदोरपि तवकममकावेकत्वे दृश्यते । भागधेयी, पापी, अवरी, समानी, आर्य्यकृती, सुमङ्गली, भेषजी । संज्ञायामिति किम् ? केवला, मामिका ।
अन्तःशब्दस्याधिकरणवाचित्वात् सामानाधिकरण्यं नास्ति । वन्तुर्नकाररहितो निपात्यते नश्चान्त इति । गर्भिण्या अन्यत्र अन्तरस्याः शालाया अस्ति । पतिरस्या अस्तीति वन्तुर्नश्चान्तो निपात्यते – पतिवनी भार्या । अत्र संगृहीतापि ऊढायामित्युत्तरत्र विशेषणादन्यत्र पतिमती । ऊढायां परिणीतायामिति नादेशे सति नान्ताद् ई: सिद्ध एव - पत्नी | पूनर्विधानं पुंवद्भावनिषेधार्थम् । तथोत्तरत्रापि भार्यायाम् इत्येव सम्बन्धो नोढायां मा भूत् । सहशब्दो विद्यमानवाची, पूर्वशब्दोऽवयववाची । विद्यमानः पूर्वोऽवयवोऽस्येति सपूर्वः, अर्थात् समासे एवेति । ग्रामस्य पतिामपत्नी, ग्रामपतिः । दृढः पतिरस्येति विग्रहे दृढपत्नी, दृढपतिः । बहुव्रीहावेवाप्रधान इति नियमार्थम्, तेन पतिमतिक्रान्ता अतिपतिरित्यादि। सत्यपि पूर्वत्वे बहुव्रीहावित्यनेन सिद्धे पुनर्विधानं (नियमार्थम्) नित्यार्थम् । समानः एकः पतिरस्या इति सपत्नी, एकपत्नी | सपल्याः अपत्यं सापत्न इति । न चायमीप्रत्ययसन्नियोगेन नकारः किन्तु स्वतन्त्रः । तस्मिन् सति ईप्रत्यय इति न निवर्तते नकारः । वयः कालकृतः प्राणिनामवस्थाविशेषः। वयसि गम्यमान इति द्वे हायने अस्या द्विहायनी, त्रिहायणी, चतुर्हायणी । त्रिचतुर्थ्यां हायनस्य वयसि णत्वम् । वयसीति किम् ? द्विहायना शाला | द्विपदी द्विपात् । त्रिपदी, त्रिपात् । कथं त्रिपदा गायत्री, पञ्चपदा पङ्क्तिरिति ? पादसमानार्थपदशब्देनैव सिद्धम् । त्रिपादित्यपि ऋचि । तर्हि प्राप्नोति इष्यते इत्येव | चतुष्पाद् ऋगिति दर्शनात् । व्यवस्थितविभाषया ऋचि तु ईर्न स्यात् । तेन पदान्ताद् ऋच्यभिधेयायाम् आ-प्रत्ययो न वक्तव्य एव | कुण्डम् इव ऊधः, द्वे ऊधसी, त्रीण्यूधांसि यस्या इति । कुण्डोनी, ट्यूनी, यूनी । बहुव्रीहावित्येव - प्राप्तोधाः । स्त्रियाम् इत्येव - महोधो धेनुकम्, धेनुसमूह इत्यर्थः । बहुव्रीहाविति निवृत्तम् । न इति वर्तते - श्येनी, श्येता । एनी, एता | हरिणी, हरिता । रोहिणी, रोहिता | कपिलिकादित्वाल्लत्वम् – लोहिनी, लोहिता । 'त' इति वर्तते । असिक्नी, असिता | पलिक्नी, पलिता । ऊविधानाय गणेऽस्मिन् पञ्च गणसूत्राणि पठ्यन्ते । कुरूः, ब्रह्मबन्धूः, ब्रह्मा बन्धुरस्या इति यथाकथंचिद् व्युत्पत्तिः