________________
५७३
परिशिष्टम् - १
६९. क्तस्येनः कर्मणि इनन्तस्य क्तस्य कर्मणि सप्तमी भवति ।अधीती छन्दसिं, अधीती शास्त्रे, आम्नाती शास्त्रे | इन इति किम् ? कन्यामाश्लिष्टतमः । कर्मणीति किम् ? रथेन प्रयाति । द्वितीयानिवृत्त्यर्थोऽयमारम्भः ।। ६९।
७०. निमित्तात् कर्मसंयोगे क्रियानिमित्तमात्रात् तत्कर्मसंयोगे सति सप्तमी भवति ।
चर्मणि दीपिनं हन्ति दन्तयोर्हन्ति कुभरम्।
केशेषु चमरी हन्ति सीम्नि पुष्यलको हतः॥ निमित्तादिति किम् ? असिना हन्ति द्वीपिनम् । कर्मसंयोग इति किम् ? चर्मणा द्वीपी मृतः । हेत्वर्थे तृतीयानिवृत्त्यर्थोऽयम् ।। ७० ।
___७१. दूरान्तिकार्थादसत्त्वे टाङस्यमोऽपि दूरादिन्तिकार्थादसत्त्वे वर्तमानात् टाङस्यमो डिश्च भवति । दूरेण पन्थाः, दूरात् पन्थाः, दूरं पन्थाः, दूरे पन्थाः । एवं विप्रकृष्टादिभ्यः । अन्तिकेन ग्रामः, अन्तिकाद् ग्रामः, अन्तिकं ग्रामः, अन्तिके ग्रामः । एवम् अभ्याशादिभ्यः । असत्त्व इति किम् ? दूरे पथि तडागः । सप्तमीप्रकरणोपक्रमात् सप्तम्यर्थे विधिरयमिति मतम् । नः स्वार्थे एताश्चतम्रो विभक्तय इति नैयासिकाः ।।७१।
७२. सर्वनाम्नो हेत्वादिना प्रथमातृतीयापञ्चमीषष्ठ्यः हेतुकारणनिमित्तैर्योगे सर्वनाम्न एताश्चतस्रो विभक्तयो भवन्ति । को हेतुः कटः क्रियते, केन हेतुना, कस्माद् हेतोः, कस्य हेतोः । एवं किं कारणम्, किं निमित्तम्, केन कारणेन, केन निमित्तेनेत्यादि । भाष्ये त्विह सप्ताप्युदाहृता विभक्तयः । हेत्वादिनेति किम् ? केनोपायेन,केन प्रत्ययेन, केन बीजेन, केन प्रमाणेन ।मतमेतच्च वार्तिकतात्पर्यविदाम् । सर्वैर्हत्वथैर्योगे विधिरयमिति एके । सर्वनाम्नो निमित्तकारणहेतुभिस्तृतीयापञ्चमीषष्ठ्यः इति काश्मीरकादयः ||७२।
७३. गुणवचनादेकवचनं संख्यायाः गुणयोगाद् गुणिनि वृत्तायाः संख्यायाः एकवचनं भवति । विंशतिश्छात्राः, विंशति छात्रान्, विंशत्या छात्रैः । विंशतिः कन्यकाः, विंशतिं कन्यकाः, विंशत्या कन्यकाभिः ।