________________
कातन्त्रव्याकरणम्
यथा 'तव सर्वगतस्य सम्प्रति क्षितिपः क्षिप्नुरभीषुमानिव सत्यानुरक्ता नरकस्य जिष्णवः,
धीसत्त्वोद्योगयुक्तानां किं दुरापं महात्मनाम् || ६४ | ६५. न वुणि तुमर्थे
तुमर्थे णि कर्तृकर्मणोः षष्ठी न भवति । दारैः क्रन्दको व्रजति, पणवेन शब्दायको व्रजति, ओदनं पाचको व्रजति, रथम् आरोहको व्रजति । वुणीति किम् ? दाराणां क्रन्दनायै व्रजति, ओदनस्य पाकाय व्रजति । तुमर्थ इति किम् ? ओदनस्य पाचकः । कथम् ओदनं पाचकतरः, ओदनं पाचकतमः ? कर्तृकर्मणोः कृतीति कृदग्रहणात् कृदन्तात् प्रत्ययान्तरे षष्ठ्या न भवितव्यम् इति मतम् । एवं च णजिनुणोर्नित्यं तद्धितान्तत्वात् षष्ठ्या न भवितव्यमेव । अङ्गानि व्यात्युक्षी, धनानि सांग्राहिणम् || ६५ | ६६. इनि भविष्यदधमर्णयोः
भविष्यदर्थेऽधमर्णे च कर्तरि विहिते इनि कर्मणि षष्ठी न भवति । ग्रामं गमी, ग्राममागामी, शतन्दायी | भविष्यच्छ्रुतिविहितस्येनो ग्रहणादिह स्यादेव । श्वोऽर्थानां ग्राही || ६६ |
५७२
1
६७. सप्तम्युपेनाधिक्ये
आधिक्ये वर्तमानेनोपशब्देन योगेऽधिकिनः सप्तमी भवति । उपखार्यां द्रोणः, उपनिष्के मासः । खार्या निष्कस्याधिकः इत्यर्थः । उपनेति किम् ? अधिकः खार्या द्रोणः, अधिको निष्कस्य मासः | सम्बन्धे षष्ठीनिवृत्त्यर्थं सप्तम्यर्थं च वचनम् । ऋद्धेष्वासीनेषु दरिद्रा भुञ्जते इति । यथा रथकारेष्वासीनेषु अयस्काराः शेरते, तथा साधुः पितरि, निपुणो मातरीति । यथा पटुः शास्त्रेषु, दक्षोऽक्षेषु, साधुः पाप्मनि, निपुणः पाप्मनि जाल्मः इति अनर्चायामपि स्यादेव || ६७ |
६८. स्वाम्येऽधिना
स्वाम्ये वर्तमानेनाधिना षष्ठ्यर्थे सप्तमी भवति । अधिपञ्चालेषु ब्रह्मदत्तः । पञ्चालानां स्वामीत्यर्थः। अधिब्रह्मदत्तेषु पञ्चालाः । ब्रह्मदत्तस्य पञ्चालाः स्वामिन इत्यर्थः ।। ६८ ।