________________
परिशिष्टम् - १ ६२. क्ते वोभयोः
भावे विहिते ते कर्तृकर्मणोर्वा षष्ठी भवति । स्थितमस्य, स्थितमनेन । गतं ग्रामम्, गतं ग्रामस्य । इह सकर्मकादपि भावे क्तः, तत्र च कर्तर्यपि वा षष्ठी स्यादेव । गतं तीर्थानां व्रतिनः, गतं तीर्थानि व्रतिना । वेत्युत्तरत्र नित्यार्थम् || ६२ | ६३. वर्तमानाधिकरणयोः सौत्रे
५७१
वर्तमानाधिकरणयोः सूत्रेण विहिते कर्तरि कर्मणि च षष्ठी भवति । इद्धं ज्योतिषाम्, भीतं मृगाणाम् । मतः साधूनाम्, इष्टः प्रजानाम्, ज्ञातश्छात्राणाम् । विदितः प्रजानाम्, अर्चितो मुनीनाम् | अधिकरणे च स्थितम् आसनं राज्ञः, सुप्तमरण्यं पान्थस्य, गतं नभो नक्षत्राणाम्, पीतमगारं क्षीरस्य, भुक्ता पात्री करम्भस्य । इह सकर्मकादपि ते कर्तर्यपि स्यादेव । पीतमगारं वृषलस्य सुरायाः । सौत्र इति किम् ? शीलादिभ्यो वर्तमाने क्तो बाहुलकात् तत्र मा भूत् । शीलितोऽयमनेन, रक्षितोऽयमनेन । यत्र ञ्यनुबन्धादिसूत्रेण बाहुलकेन च क्तस्तत्र षष्ठ्यपि तृतीयापि । कान्तः प्रजानाम् कान्तः प्रजाभिः । एतदर्थं हीच्छार्थत्वे तत्रास्य बहुलसंग्रहणम् । कमेरिह न ग्रहणम् इति न कैश्चिच्चिन्तितम् | ञ्यनुबन्धादिभ्यो वर्तमानक्तेनातीतक्तस्य बाधनात् त्वया मतम् इत्याद्यसाधु इति मन्यन्ते, तदसत् । मतात्त्वेकत्र सहसम्भवे बाधा । क्व चानयोः पृथक्कालविहितयोरेकत्र सहसम्भवः । सहसंभवो हि तत्प्रसक्त्यवसरे प्रसङ्गः, स च नास्त्येव ।
|
प्रयोगाश्च दृश्यन्ते – ‘वसामोऽविदिताः परैः इति भारते । स पुण्यकर्मा भुवि पूजितो नृपै:' इति सुश्रुतस्य । 'पूर्वैः प्रहरणमष्टविधमिष्टम्' इति वात्स्यायनस्य | 'ननु जनविदितैर्भवद्व्यलीकैः' इति माघस्य । 'जनैरविदितविभवो भवानीपतेः' इति भारवेः । 'बोद्धव्यं किमिव हि यत् त्वया न बुद्धम्' इति भट्टेः । 'न भीतं तडितो दृशा' इति रुद्रस्य । 'राज्ञा हिमवतः सारो विज्ञातोऽस्य हिमाद्रिणा' इति कालिदासस्य । 'अनुप्रासधिया गौरैस्तदिष्टं बन्धगौरवात्' । 'ज्ञातो लङ्केश्वरः कृच्छ्रादाञ्जनेयेन तत्त्वतः ' इति दण्डिनः । 'सुप्तमुत्सवकारिणा' इति कीचकवधमहाकाव्यस्य ।। ६३ । ६४. उकञि कमेः
कमेरुकञि कर्मणि षष्ठी भवति । भोगानां कामुकः । यूनां कामुकी । निष्ठादित्वे विधिः । अन्यथा नियमोऽयम् । 'द्विषन्नभिजातस्य खल:' इति सम्बन्ध एव षष्ठी ।