________________
५७०
कातन्त्रव्याकरणम्
५८. वा कर्तरि कृत्ये कृत्यप्रत्ययान्ते प्रयुज्यमाने कर्तरि षष्ठी भवति वा । कर्तव्यः कटोऽस्य, कर्तव्यः कटोऽनेन | करणीयोऽर्थोऽस्य, करणीयोऽर्थोऽनेन । लव्यो व्रीहिरस्य, लव्यो व्रीहिरनेन । अनुशिष्यः शिष्योऽस्य, अनुशिष्यः शिष्योऽनेन । कार्यः कटोऽस्य, कटोऽनेन । कर्तरीति किम् ? गेयो वटुः साम्नाम् । कर्तरि यः ।। ५८ ।
५९. न कर्तृकर्मप्राप्तौ कर्तृकर्मप्राप्तौ कृत्ये तयोः षष्ठी न भवति । दोग्धव्यो गौः पयो गोपालकेन । वोढव्यो भारो ग्रामं भृत्येन । अनुशिष्यः शिष्यो धर्ममुपाध्यायेन, गमनीयः शिष्यो ग्राममनेन । गन्तव्यं ग्राममनेनेत्यपि मतं नः । तथा च कां दिशं गन्तव्यम् इति परतः कर्तृग्रहणादिह कर्मण्यपि निषेधः ।। ५९।
६०. कर्तर्यनङबुनि 'अङ्-अ-बुञ्' इत्येतेभ्योऽन्यस्मिन् कर्तृकर्मप्राप्तौ कृति कर्तरि षष्टी न भवति । ओदनस्य पाकश्छात्रेण, दोहः क्षीरस्य गवामाभीरेण, शब्दानामनुशासनं मुनिभिः, जपो मन्त्रस्य ब्राह्मणेन । गम्यमानेऽपि कर्मणि निषेधमाहुः । पानमनेन, भोजमनेन । कर्तरि तृतीयास्थित्यर्थोऽयमारम्भः । पानमस्य, भोजनमस्येति तु सम्बन्धे षष्ठी स्यादेव । अनङवुजीति किम् ? भिदा तमसामर्द्धस्य । स्पृहा भोगानां यूनः । चिकीर्षा पुण्यस्य सताम् । जागरा निशीथस्य छात्राणाम् । ईहार्थस्य दरिद्राणाम् । मम भोजिका सक्तूनाम् । तव शायिका रात्रेः । इह विभाषापि बाध्यते ।। ६०।
६१. वा भावे स्त्रियाम् स्त्रियां भावे विहिते कर्तृकर्मप्राप्तौ शेषे कृति कर्तरि वा षष्ठी भवति । ग्रामस्य गति त्यस्य भृत्येन वा । परिचर्याचार्यस्य शिष्यस्य शिष्येण वा । उपासना पितुः पुत्रस्य पुत्रेण वा । जागर्या रात्रेश्छात्रस्य छात्रेण वा । अकरणिः पुण्यस्य जाल्मस्य जाल्मेन वा । भृत्या प्रजानां नृपस्य नृपेण वा । हानिः सुखानां कृपणस्य कृपणेन वा । स्त्रियाम् इति किम् ? ओदनस्य पाकश्छात्रेण । केचित् स्त्रियामिति नाद्रियन्ते, तन्मते ओदनस्य पाकश्छात्रस्येत्यपि कर्तृकर्मप्राप्तावित्येव साधो: स्थितिः। अजीवनी: पापस्य, अकरणिर्जाल्मस्य ।।६१।