________________
परिशिष्टम् -१
५३. कर्मणि दयेशोः दयेशोः कर्मणि षष्ठी वा भवति । निष्कस्य दयते निष्कं वा । व्रीहीणामीष्टे व्रीहीन् वा । तस्य चानुकरोतीति शब्दाः सादृश्यसूचिन इति शेषविवक्षयैव षष्ठी । यथा - 'गुरुविप्रतपस्विदुर्गतानां प्रतिकुर्वीत भिषक् स्वभेषजैः' इति । ‘सा लक्ष्मीरुपकुरुते यया परेषाम्' इत्यादि । कर्मणि षष्ठीविधिस्तु धातोरकर्मकविधिर्मा भूत् ।। ५३ ।
५४. व्यवहृदिविपणामेकार्थे एकार्थे वर्तमानानामेषां कर्मणि वा षष्ठी भवति । क्रयविक्रयादिलक्षणे व्यवहारे द्यूतक्रियायां चैषामेकार्थता । शतस्य व्यवहरति शतं वा । शतस्य दीव्यति, शतं वा । शतस्य पणायते शतं वा ।पणेः स्तुत्यथदिवाय इत्यनार्षमिति भागवृत्तिकृताप्युक्तम् । एकार्थ इति किम् ? हिरण्यानि व्यवहरति । प्रियं दीव्यति, राजानं पणायते । गणनेच्छास्तुतयोऽत्रार्थाः ।। ५४।
५५. नाथ आशंसने आशंसने वर्तमानस्य नाथतेः कर्मणि षष्ठी वा भवति । श्रियो नाथते श्रियं वा । आशंसते इत्यर्थः । आशंसन इति किम् ? पुत्रमनुनाथति । अनुनयतीत्यर्थः ।। ५५ ।
५६. करणे पूस्तृप्त्यर्थयोः । पूर्यतेस्तृप्त्यर्थस्य च करणे षष्ठी वा भवति । घृतस्य पूर्णो घटः, घृतेन वा । ओदनस्य परिपूर्णाः स्थाल्यः, ओदनेन वा । 'पूर्यते शोणितस्याक्षि' इति । 'असृजः पूर्णकोष्ठस्य' इति च सुश्रुतस्य । ‘मधुन इव तथैवापूर्णमद्यापि भाति' इति च माघस्य | तृप्त्यर्थस्य च - फलानां तृप्तः, फलानां सुहितः, फलानामाशितः, फलैर्वा । आयूर्वाद् अश्नातेस्तृप्त्यर्थत्वेनाकर्मकत्वात् कर्तरिक्तः । यथा 'सदोद्गारसुगन्धीनां फलानामलमाशिता' इति भट्टिः । भाष्ये तु अश्नातेः कर्तरि क्तो दीर्घश्च निपात्यते इति सकर्मकत्वेऽपि 'ओदनमाशितः' इति सिद्ध्यर्थमुक्तः ।। ५६।
५७. ज्ञोऽप्रमितौ सत्यानुभवः प्रमितिः । ततोऽन्यत्र जानातेः करणे षष्ठी भवति । सर्पिषो जानीते, सत्यस्य जानीते । सर्पिषा भ्रान्तो भवति । सत्येन प्रवर्तते इत्यर्थः । अप्रमिताविति किम् ? चक्षुषा संजानाति । निश्चिनोतीत्यर्थः ।। ५७।