________________
५६८
कातन्त्रव्याकरणम्
४८. तृतीया पृथग्विनानानाभिः एभिर्योगे तृतीया वा भवति, पक्षेऽन्यार्थत्वात् पञ्चम्येव । पृथग् वृषलेन, पृथग् वृषलाद् ब्राह्मणः । विना सुखेन, विना सुखात् कृपणः । नाना वृषलेन, नाना वृषलाद् ब्राह्मणः ।।४८।
४९. षष्ट्यनाशाजधुभिरतसर्थैः आहि-आच्-अञ्चवर्जितैरतसथैर्योगे षष्ठी भवति । दक्षिणतो हर्म्यस्य, पुरस्ताद् हर्म्यस्य । 'दक्षिणेन हर्म्यस्य' इत्यपि । येषामेनेन द्वितीया वेति मतम् । उपरि सौधस्य, उपरिष्टात् सौधस्य । अधो बिन्ध्यस्य, अधस्ताद् बिन्ध्यस्य । इह वाऽधिकारोऽस्त्येव । तन्वान्तरेऽपि हि पञ्चमीसमावेशमिच्छन्ति, कथमन्यैः प्रत्याख्यातम् अतः सूक्तिरियं बाणस्य
सुभाषितं हारि विशत्ययो गलान्न दुर्जनस्यार्करिपोरिवामृतम् । तदेव थत्ते हृदयेन सज्जनो हरिर्महारत्नमिवार्णवोद्भवम् ॥
(मङ्गलश्लोकः कादम्बर्याः)। अनाह्याजञ्चभिरिति किम् ? दक्षिणाहि मलयात्, उत्तरा सुवेलात् । दक्षिणोत्तराभ्याम् आच् - आहि च दूरे । प्राङ् मलयात् । इहास्तातेलुक् ।।४९ |
५०. काले कृत्वोऽर्थानामधिकरणे कृत्वोऽर्थप्रत्ययानां प्रयोगेऽधिकरणे काले वा षष्ठी भवति । पञ्चकृत्यो दिवसस्य भुङ्क्ते, दिवसे वा । द्विरह्रो भुङ्क्ते, अह्नि वा । काल इति किम् ? त्रिः पात्र्यां भुङ्क्ते ।।५।।
__ ५१. आयुक्तकुशलाभ्यां तात्पर्ये तात्पर्ये वर्तमानाभ्यामाभ्यां योगे आधारे षष्ठी वा भवति । भोगानाम् आयुक्तः, भोगेष्वायुक्तः । कर्मणः कुशलः, कर्मणि कुशलः । नित्यमासक्त इत्यर्थः । तात्पर्य इति किम् ? रथेष्वायुक्तोऽश्वः, निबद्ध इत्यर्थः । कर्मसु कुशलः, शिक्षित इत्यर्थः ।। ५१ ।
५२. क्रियोपलक्षणभावादनादरे क्रियाया उपलक्षणं भावः क्रिया यस्य सः क्रियोपलक्षणभावः । तस्मादनादरे षष्ठी वा भवति । रुदतः प्राब्राजीत्, रुदति प्राब्राजीत् । रुदन्तमनादृत्य गतः इत्यर्थः । एवं पश्यतो हरति, पश्यति हरति । पश्यन्तमनादृत्य हरति पश्यतोहरः ।। ५२ ।