________________
परिशिष्टम्-१
४४. प्रभृत्याराबहिषः षष्ठ्यर्षे _ 'प्रभृति-आराद्-बहिष्' इत्येतेषां योगे षष्ट्यर्थे पञ्चमी भवति । बाल्यात् प्रभृति रमणीयः, आरादगारात्, बहिरावसथात् । 'क्वचिदपवादविषयेऽप्पुत्सर्गः' (पु० प० वृ० ११५) इति भाष्यस्मृत्या बहिोंगे षष्ठीमप्याहुः । बहिरम्भोजवनस्य वायसास्ते । करस्य करभो बहिः। फाल्गुन्याश्चैत्रीमासे पाटलिपुत्राद् राजगृहं सप्तसु योजनेष्विति कालाध्वमानावधेर्दिग्लक्षणैव पञ्चमी पौर्वापर्यस्य सत्त्वात् । मासे मासावसाने यथामासे दास्यामि । एवं सप्तसु योजनेष्विति । अद्यायं भोक्ता, व्यहाद् भोक्ता, इहायमिषून स्यन् क्रोधाल्लक्ष्यं विध्यति । कारकमध्ये कालाध्वमानाभ्यामपि तथैव पञ्चमी । यहे भोक्ता, क्रोशे विध्यति । व्यहे अतीते क्रोशे स्थितमिति गम्यते ||४४।
४५. प्रतिनिधिप्रतिदानयोः प्रतिना मुख्यस्य सदृशः प्रतिनिधिः । प्रतिदानं विनिमयः । अनयोर्वर्तमानेन प्रतिना षष्ठ्यर्थे पञ्चमी भवति । अभिमन्युरर्जुनात् प्रति । अर्जुनस्य प्रतिनिधिरित्यर्थः । माषानस्मै तिलेभ्यः प्रतियच्छति । तिलानां विनिमयेनेत्यर्थः । अनयोरिति किम् ? वृक्षं प्रति विद्योतते विद्युत् । प्रतिनेति किम् ? पार्थस्य प्रतिनिधिः, माषाणां विनिमयः ।।४५।
४६. वा दूरान्तिकार्थेन दूरार्थिकनान्तिकार्थेन च योगे षष्ठ्यर्थे पञ्चमी भवति वा । गृहाद् दूरम्, गृहस्य दूरम् ।गृहाद् विप्रकृष्टम्, गृहस्य विप्रकृष्टम् ।गृहादन्तिकम्, गृहस्यान्तिकम् ।गृहादभ्याशम्, गृहस्याभ्याशम् । गुणिवृत्तिनापि - गृहाद् दूरः पन्थाः ॥४६।
४७. करणे कतिपयस्तोकाल्पकृच्छ्रादसत्त्वे अद्रव्ये वर्तमानेभ्यः कतिपयादिभ्यः करणे पञ्चमी भवति वा । कतिपयान्मुक्तः, कतिपयेन मुक्तः। स्तोकाद् गतः, स्तोकेन गतः । अल्पान्नष्टः, अल्पेन नष्टः । कृच्छ्राल्लब्धम्, कृच्छ्रेण लब्धम् । इहासत्त्वार्थत्वादेकवचनमेवेच्छन्ति । असत्त्व इति किम् ? स्तोकेन मधुना मत्तः, कृच्छ्रेण पथा भ्रान्तः ।।४७।