________________
कातन्त्रव्याकरणम्
(द्र०, अ० २/३/१७) इत्यापिशलेः सूत्रम् । तथा 'तृणाय मन्ये राज्यम्' इति । तृणमिव मन्ये इत्यर्थः । अर्थद्वयस्य व्यवस्थितविभाषयैव संगृहीतत्वात् 'नौकाकान्नभृगालानां प्राणित वृद्धकीर्तनात्' ।।३९।
४०. पञ्चमी व्यतिरेके हीनाधिकभावो व्यतिरेकः । तत्र पञ्चमी भवति । वृषला राजन्येभ्यः कातराः, माथुराः पाटलिपुत्रेभ्यः आढ्याः ।।४०।
४१. हेतावृणे ऋणे हेतौ वृत्तात् पञ्चमी भवति ।शतादवगृहीतोऽसि |कथं सहस्रेण बन्धितोऽसि ? अविवक्षितविशेषहेतौ पञ्चमीयम् । विशेषे कर्नादौ यथायथं विभक्तयः स्युरेव ।।४१ ।
४२. क्त्यस्त्रीभ्यामसत्त्वे वा असत्त्वे अद्रव्ये हेतौ वृत्तात् क्त्यन्ताद् अस्त्रीलिङ्गाच्च वा पञ्चमी भवति । भीतेः कुण्ठः, भीत्या कुण्ठः।
योग्यानां गृह्यतेऽर्थानामभावोऽनुपलब्धितः।
देहाग्निं पक्तितो वियाद् बलं व्यायामशक्तितः॥ अभिपतितुमना लघुत्वभीतेर्मधुसुरभिमुखाब्जगन्धलुब्धेरित्यादि ।
अस्त्रीलिङ्गाद् बाल्यात् सुभगः, बाल्येन सुभगः । स्त्रीलिङ्गनिषेधः किम् ? मैत्र्या तिष्ठति, इज्यया वसति । इह अस्त्रियामिति पाणिनीया स्मृतिः । असत्त्व इति किम् ? धनेन कुलम् । कथम् इहाग्निधूंगात् । नाग्नेधूमो हेतुः, अपि तु तत्प्रतीतेः । ततो धूमम् उपलभ्याग्निः प्रतीयते इत्यर्थे परेण स्यादेव ।।४२।
४३. यपोऽधिकरणकर्मणोरप्रयोगिणः अप्रयोगिणो गम्यमानस्य यबन्तस्याधिकरणे कर्मणि च पञ्चमी भवति । आसनात् प्रेक्षते, रथादास्ते । आसने प्रविश्य, रथमारुह्येत्यर्थः । तथा पितामहाल्लज्जते । पितामहमभिवीक्ष्य इत्यर्थः । तथा पितामहादन्तर्धत्ते । पितामहमुपलभ्य निलीयते इत्यर्थः । 'हुताशनादन्तर्धत्ते, व्याघ्राद् विलीयते' इति च स्यादेव ।।४३ ।