________________
परिशिष्टम् -१
५६५ प्रजानां कुशलं भूयात् । प्रजाभ्यः क्षेमम्, प्रजानां क्षेमं भूयात् । प्रजाभ्यो मद्रम्, प्रजानां मद्रं भूयात् । प्रजाभ्यो मङ्गलम्, प्रजानां मङ्गलं भूयात् । प्रजाभ्य आयुष्यम्, प्रजानामायुष्यं भूयात् । प्रजाभ्यो दीर्घजीवितम्, प्रजानां दीर्थजीवितं भूयात् । आशिषीति किम् ? छात्रस्यार्थो भूतः । कथम् 'कुशलं खलु तुभ्यमेव तद् वचनं कृष्ण ! यदभ्यधामहम्' इति ? अस्त्विति विवक्षितमिदमिति स्यात् । षष्ठ्यर्थ इत्येव - ग्रामे कुशलं भूयात् ।।३७।
३८. करणे परिक्रियः परिक्रीणातेः करणे चतुर्थी वा भवति । शताय परिक्रीतो हसति, शतेन वा । कञ्चित् कालं बन्धकीकृत इत्यर्थः । द्रोणायाहः परिक्रीतो वृषलः, द्रोणेन वा । कृत्स्नमहः स्वीकृत इत्यर्थः ।।३८।
३९. नित्यं कर्मणि तुमोऽप्रयोगिणः अप्रयोगिणो गम्यमानस्य तुमन्तस्य कर्मणि नित्यं चतुर्थी भवति । एधेभ्यो व्रजति, रथेभ्यो व्रजति । एधानाहर्तुं रथानारोढुं व्रजतीत्यर्थः । तादर्थ्य सिद्धौ कर्मणि द्वितीया मा भूद् इत्यारम्भः । तथा छात्राय श्लाघते, छात्राय नुते, छात्राय तिष्ठते कुमारी, छात्राय शपते इति बोधयितुम् इति गम्यमानतुमः कर्मत्वात् सिद्धम् । तथा मूत्राय सम्पद्यते मण्डः । मूत्रं जनयितुं प्रभवतीत्यर्थः । 'मूत्रं सम्पद्यते मण्डात्, मूत्रं सम्पद्यते मण्डः' इति च स्यादेव । तथा वाताय कपिलिका विद्युत् । वातं ज्ञापयितुमिति गम्यते । यथा 'रूपाय चक्षुः, पथे प्रदीपः' इति । गत्यर्थकर्मणीत्यत्र षष्ठ्यप्रसङ्ग इति न परिशिष्यते परत्वादेव ग्रामस्य गन्तेति षष्ठ्याः सिद्धत्वात् । अत एव 'ग्राम गमी' इति भविष्यदर्थे इनि षष्ठीनिषेधस्योदाहरणं भाष्ये । ___केचित् कृत्यपि द्वितीयाचतुर्थ्यो मन्यन्ते । वचनमिदं तु तादर्थ्यचतुर्थ्या प्रत्याख्यातुमशक्यम् - ग्रामाय समृच्छति, ग्रामाय समियीत्यकर्मकतया आत्मनेपदप्रसङ्गात् । तत्कथं चन्द्रगोमिना प्रत्याख्यातम्, नापि मन्यकर्मणीत्यत्र किञ्चित् परिशिष्यते । तृणादिकमपेक्ष्य कस्यचिदपकर्षे नज्योगे च विधिरयमिति भाष्यस्थितिः । 'न त्वा तृणाय मन्ये' इति तृणादपि अपकृष्टं मन्ये इत्यर्थः । उपमानादनादरविषयात् तृणादेविधिरिति चापिशलीया स्थितिः । तथा च "मन्यकर्मण्यनादरे, उपमानाद् विभाषाऽप्राणिषु"