________________
५६४
कातन्वव्याकरणम्
३२. चतुर्थ्यर्थे दाणोऽनाचारे धर्मशास्त्रविरोधेन व्यवहारोऽनाचारः । तस्मिन् गम्यमाने दाणः सम्प्रदाने तृतीया भवति वा । दास्या संप्रयच्छते मालां कामुकः, दास्यै संप्रयच्छति । धर्मविरोधेन रिरंसुर्दास्यै मालां संप्रददानो ह्येवमुच्यते ।।३२ ।
३३. लुपि नक्षत्रादधिकरणे लुप्शब्दो लुक्शब्दवत् पुंलिङ्गः । अणो लुपि लोपे सति काले वर्तमानान्नाम्नोऽधिकरणे तृतीया वा भवति । पुष्येण मूलान्युद्धरेत् पुष्ये वा, रोहिण्या शालीन् वपेद् रोहिण्यां वा । पुष्यादिनक्षत्रयोगिनि काल इत्यर्थः । लुपीति किम् ? रोहिण्यामिन्दुः ।। ३३ ।
.३४. प्रसितोत्सुकाभ्याम् आभ्यां योगे चाधिकरणे तृतीया भवति वा | भोगैः प्रसितः, भोगेषु प्रसितः । तत्पर इत्यर्थः । भोगैरुत्सुकः, भोगेषूत्सुकः ।। ३४।
३५. षष्ठ्यर्थे तुल्यार्थः तुल्यार्थोंगे षष्ठ्यर्थे वा तृतीया भवति । चन्द्रेण तुल्यः, चन्द्रस्य तुल्यः । 'तुल्यं पल्यकैर्विगलितहारचारुभिः स्वैः' । पार्थेन सदृशः, पार्थस्य वा । पार्थेन समः, पार्थस्य वा | बहुवचनाद् गुणमात्रे ऽपीष्यते । ‘सादृश्यं गतमपनिद्रच्युतगन्धैः' ।तुलोपमाभ्यामपीह स्यादेव - 'तुलां यदारोहति दन्तवाससा, गिरिणोपमामुपदधे गजता' | चान्द्रेऽपि तुलोपमयोरिहाप्रतिषेध एव ।। ३५।
३६. चतुर्थी हितसुखेन हितसुखाभ्यां योगे षष्ठ्यर्थे वा चतुर्थी भवति । राज्ञो हितम्, राज्ञे हितम् । 'धर्म एव हितो नित्यम् इहामुत्र च भूभुजाम्' । 'प्रामायद् गुणिनां हिते' इति च भट्टिः | वार्तिक तु हितयोगे षष्ठी न प्रमाणम् । चान्द्रे तु षष्ठीचतुर्यो विहिते । शिष्टप्रयोगास्तु तन्मतमनुगृह्णन्ति । राज्ञे सुखम्, राज्ञः सुखम् ।। ३६ ।
३७. आशिष्यर्थकुशलमद्रायुष्यार्थैः अर्थः प्रयोजनम्, कुशलं क्षेमम्, मद्रं मङ्गलम्, आयुष्यं दीर्घजीवितम् । एतदथैर्योगे सति आशिषि गम्यमानायां षष्ट्यर्थे चतुर्थी वा भवति । प्रजाभ्योऽर्थः, प्रजानामर्थो भूयात् । प्रजाभ्यः प्रयोजनम्, प्रजानां प्रयोजनं भूयात् । प्रजाभ्यः कुशलम्,