________________
५७४
कातन्त्रव्याकरणम्
विंशतिः काण्डानि, विंशतिं काण्डानि, विंशत्या काण्डैः, विंशत्यां काण्डेषु । एवं त्रिंशच्चत्वारिंशत्पञ्चाशत्षष्टिंसप्तत्यशीतिनवतिशतसहस्रायुतनियुतलक्षकोट्यर्बुदपद्मप्रभृतयः । गुणवचनादिति किम् ? पञ्च छात्राः, द्वे विंशती रथानाम्, तिम्रो विंशतयः । द्वित्र्यादिवदनेकवस्तुवृत्तित्वादेकवचनं न स्यादिति । सर्वो जन इति जातावेकवचनम् । साकल्ये सर्वशब्दः ।।७३।
७४. ग्रामे द्विवद् गोदस्य गोदशब्दस्य ग्रामे व्यर्थवद् भवति । गोदौ ग्रामः, गोदौ गम्येते, पूर्वगोदौ, अपरगोदौ, अश्विनौ, पुष्पवन्तौ इति व्यर्थत्वात् ।।७४।
७५. बहुत्ववदस्वादेरसंख्यैकाधिकरणस्य एकट्यादिशब्द इह संख्या संख्यैकाधिकरणाद् अन्यस्यासुप्रभृतेर्द्धित्वैकत्वयोर्बहुत्ववद् भवति । असवः प्राणाः इति असुष्वेव । 'निघ्नन् प्रियं प्राणमिवाभिमानम्' इत्यर्थान्तरे । प्राणे हन्मारुते बले । सक्तव इति । केचिदुदकेन सिक्तः सक्तुरिति काशिकादौ । शिरीषा ग्रामः, शाल्मलयो नगरम्, वरणा नगरम्, अम्बुनि गाव एताः । सामान्यपुष्पे सुमनसः, सुमनाः । जलौकसो जलौका : । समाः समा च संवत्सरः । अप्सरसः, अप्सराः । वस्त्रान्ते दशाः, वत्तौ तु दशेति । तदन्तादप्युपसर्जनत्वे बहुवचनमेव स्यात् । भाष्येऽप्येवमुक्तम् । जाम्बवश्च पञ्चालाश्च जाम्बवपञ्चालाः । पूर्वपदत्वे तु पञ्चालजाम्बदौ । वषहिमन्तौ ।
पुंस्यसवोऽपि प्राणा दारा लाजाः सवल्लजाश्च गृहाः। एके पठन्ति सक्तून् ग्रामाख्यायां शिरीषाः स्युः॥ नीवृति कुरवो मत्स्याः सुह्माङ्गविदेहमद्रपञ्चालाः। कालाजमीढत्रिर्गतबाहीकवङ्गान्धाः ॥ चेदिरवन्तिकलिङ्गाखुशीनरप्रभृतयोऽन्येऽपि । शाल्मलयः पुरि वरणाः स्त्रियामुभे वारिणि तु गावः॥ पुष्ये च सुमनसो वा वा च जलौकःसमाप्सरसः। आपो वस्त्रस्य दशाः सिकतावर्षामघा धानाः॥ यत् कृत्तिकाश्च बहुलास्तद् बह्वाभिधायित्वात् ।