________________
परिशिष्टम् -२
६०५ अञ्जसाकृतम्, सहसाकृतम् । उत्तरपदे इति किम् ? सह तमसा वर्तते सतमोगृहम् । तमःस्थाने तपः पठन्ति शाक्याः । व्योषकाव्येऽपि अलुकि तदेव प्रयुक्तम् अलुग्विषयेष्वेकवचनान्तरस्यैव समास इति भाष्यम् । तन्मते द्विवचनबहुवचनयोरिह नोदाहरणम् । पूर्वे त्वाचार्या अलुगविषये द्विवचनबहुवचनयोरपि समासमिच्छन्तः सम्भवेऽप्यलुगेकवचनस्यैवेति स्मरन्ति तेषां तमोभिर्वृतं तमोवृतमितीष्टमेव ।।४ ।
५. ओजोऽम्भसश्च ओजसोऽम्भसश्च परा तृतीयोत्तरपदे लोप्या न भवति ।ओजसाकृतम्, अम्भसाधौतम् । उत्तरपदे इति किम् ? सहाम्भो नभः ।।५।.
६. शैषिक्यात्मनः पूरणे पूरणप्रत्ययान्ते उत्तरपदे आत्मनः परा शैषिकी स्वाम्यादिविहिता तृतीया लोप्या न भवति । शेषे तृतीया त्वतो वचनात् तस्याः समासश्च । आत्मना तृतीयः, आत्मना पञ्चमः, आत्मना षष्ठः, आत्मना तुरीयः, आत्मना . विंशतितमः | अबाधकान्यपि निपातनानीति षष्ठ्यपीष्यते । आत्मनो द्वितीयः, आत्मनः पञ्चमः ।।६।
७. आज्ञायिनि मनसः आज्ञायिन्युत्तरपदे मनसः परा तृतीया लोप्या न भवति । मनसाज्ञायी, ताच्छील्ये आभीक्ष्ण्ये वा णिनिः ।।७।
८. संज्ञायां च संज्ञायां च विषये मनसः परा तृतीया उत्तरपदे लोप्या न भवति । मनसा दीव्यतीति करणावस्थायामपि दिवः कर्मसमावेशात् कर्मण्यण् । मनसादेवी, मनसादत्ता, मनसागुप्ता, तपसादेवीत्यपि वृद्धैरुदाहतम् ।। ८ ।
९. पुंसानुजजनुषान्धौ एतौ तृतीयास्थितौ साधू भवतः । पुमांसमनुजायते स्मेति जनेर्डः । अनुपूर्वो जनिस्तत्पूर्वीकरणपूर्वक जन्मनि सकर्मकः । यथा कुमारमनुजाता कन्या । किञ्चानुजायते इति अनुजः कनीयान् । यथा चैत्रस्यानुजो मैत्रः, उभयथापि पुंसानुजः इति निपातनात् तृतीया । जनुर्जन्म, तेनान्धो जनुषान्धः । 'प्रकृत्या अभिरूपः' इतिवत् तृतीया ।।९।