________________
कातन्त्रव्याकरणम्
१०. परस्मैपदादीनि एतानि समासरूपाणि साधूनि भवन्ति । परस्मै पद्यते इति परस्मैपदम् । एवम् आत्मनेपदम् । तादर्थ्य चतुर्थी, त्यादिविशेषाणामिमे संज्ञे । परस्मैपदे भाषोक्तिरस्येति परस्मैभाषः, एवम् आत्मनेभाषः। पदशब्दलोपो निपातनाद् धातुविशेषाणामिमौ व्यपदेशौ ।।१०।
११. स्तोकान्तिकदूरार्थकृच्छ्रेभ्यो उसिः एभ्यो ङसिरुत्तरपदे लोप्यो न भवति ।अर्थशब्दस्त्रिभिः संबध्यते । स्तोकादाहृतम्, अल्पादाहृतम्, अन्तिकान्नीतम्, अभ्यासान्नीतम्, दूराद् दृढम्, विप्रकृष्टाद् दृढम्, कृच्छ्राल्लब्धम् । कृच्छ्राल्लब्धमिति तृतीयासमासश्चेत् स्तोकादिश्रुतिविहितस्य समासस्य ग्रहणात् । कृच्छ्रभयम्, कृच्छ्रभीतिरिति लुगेव । कृच्छ्रादपोढम्, कृच्छ्राद् भीतम्, दूरात् पतितमिति परत्वात् स्तोकादिलक्षण एव समासो भवति । केचिदिह करणादिलक्षणायाः पञ्चम्या ग्रहणमिच्छन्तः कृच्छ्राद् भीतम्, कृच्छभीतम् । दूरात् पतितम्, दूरपतितम् इति मन्यन्ते ।।११।
१२. ब्राह्मणाच्छंसिबलात्कारौ ङसिस्थितावेतौ साधू भवतः । ब्राह्मणं वेदैकदेशः तत उद्धृत्य शंसतीति ब्राह्मणाच्छंसी ऋग्विशेषः । बलादनौचित्यात् कारणं बलात्कारः । बलात्कारासहिष्णवो हि प्रजा भवन्ति ।।१२।
१३. षष्ठ्याक्रोशे आक्रोशेऽधिक्षेपविषये षष्ठ्युत्तरपदे लोप्या न भवति । दास्याः पतिरसि | बन्धक्याः पतिरसि ।।१३।
१४. पुत्रे वा पुत्रे उत्तरपदे आक्रोशविषये षष्ठी लोप्या वा भवति । दास्याः पुत्रोऽसि, दासीपुत्रोऽसि माणवक ! ।।१४।
१५. ऋतो विद्यान्वयनिमित्तात्तेषु विद्यानिमित्तात् सन्ताननिमित्ताच्च ऋदन्तात्तेषु विद्यान्वयनिमित्तेषु उत्तरपदेषु षष्ठी लोप्या न भवति । होतुरन्तेवासी, भ्रातुष्पुत्रः । कस्कादित्वाद् द्वितीयः शिट् । तेष्विति