________________
परिशिष्टम् - २
६०७ बहुवचनमयथासंख्यार्थम्, तेन पितुरन्तेवासी, होतुः पुत्रः । भ्रातृपुत्र इति, भ्रातॄणां पुत्र इति बहुत्वे स्मरन्त्येके || १५।
१६. पतिस्वस्रोस्तु वा विद्यान्वयनिमित्ताद् ऋदन्तादनयोरुत्तरपदयोः षष्ठी लोप्या वा भवति । होतुः पतिः, होतृपतिः । स्वसुः पतिः, स्वसृपतिः । होतुः स्वसा, होतृष्वसा | पितुः स्वसा, पितृष्वसा । अलोपे वा षत्वं लोपे तु नित्यम् । तुशब्द उत्तरत्र वानिवृत्त्यर्थः । एवमन्येऽपि ।।१६।
१७. वास्तोष्पति-दिवस्पति- वाचस्पतयः एते षष्ठीस्थितौ साधवो भवन्ति । वास्तुनो वास्तोर्वा पतिस्तिोष्पतिः। इह द्वितीयः शिट् निपातनात् । दिवस्पतिः । वाचस्पतिः । द्वयोस्तृतीयः शिट् ।।१७।
१८. दिवोदाश- पश्यतोहर - देवानांप्रियाः एते षष्ठीस्थितौ साधवो भवन्ति । दाश्यतेऽस्मै दाशो दानपात्रम् । दिवोदाशो धन्वन्तरिः। पश्यतोऽग्रे हरति पश्यतोहरः । इहानादरसंबन्धे षष्ट्या निपातनमेतत् । देवानां प्रियो मूर्खश्छागश्च ।।१८।
१९. वाचोयुक्ति- दिशोदण्डौ एतौ षष्ठीस्थितौ साधू भवतः । वाचोयुक्तिः, दिशोदण्डः ।।१९।
२०. आमुष्यपुत्रिकामुष्यकुलिकामुष्यायणाश्च एते षष्ठीस्थितौ साधवो भवन्ति । अमुष्य पुत्रस्य, अमुष्य कुलस्य भावः इति अमुष्येतिसम्बन्धिपूर्वाभ्यां पुत्रकुलाभ्यां मनोज्ञादित्वादिकण, स्त्रीत्वं स्वभावात् । आमुष्यपुत्रिका, आमुष्यकुलिका | प्रख्यातपितृकता प्रख्यातगोत्रता च व्याख्यायते । अमुष्यापत्यमिति अमुष्याद् आयनण् आमुष्यायणः प्रख्यातपितृकोऽभिधीयते ।।२०।
२१. शुनः पुच्छलाङ्गुलशेपेष्याख्यायाम् एकूत्तरपदेषु संज्ञायां शुनः षष्ठी लोप्या न भवति । शुनःपुच्छः, शुनोलाङ्गेलः, शुन शेपः । शीडो नीदापादित्वात् पप्रत्यये सति 'शेप' इति प्रथमोपधम्, शब्दान्तरमित्येकं मतम् । निर्देशबलान्निपातितसलोपस्य प्रथमवतः शेपसो ग्रहणमित्यपरम् । तत्राचीनानां तृतीयवत इति । आख्यायामिति किम् ? श्वपुच्छम्, श्वलाङ्गुलम्, श्वशेपः ।।२१।