________________
कातन्त्रव्याकरणम्
२२. सप्तमी प्रायेण कृति
कृदन्ते उत्तरपदे प्रायेण सप्तमी लोप्या न भवति । खेचरः, स्तम्बेरमः, कर्णेजपः, अग्रेसरः, कालेजम्, जघनेफला, काण्डेरुहा, कुशेशयम्, जलेशयम्, वर्षासुजम्, प्रावृषिजम्, शरदिजम्, दिविजम्, गोषुचरः । गले चुप्यते इति बाहुलकात् कर्मणि वुण् - गलेचोपकः ।। २२ ।
६०८
२३. वा तु वनेचरादौ
वनेचरादौ तु सप्तमी वा लोप्या भवति । वनेचरः, वनचरः । त्वचिसारः, त्वक्सारः। शरेजम्, शरजम् । वर्षेजम्, वर्षजम् । अप्सुजम्, अब्जम् । सरसिजम्, सरोजम् । शिरसिजम्, शिरोजम् । उरसिजम् उरोजम् । सरसिरुहम्, सरोरुहम् । दिविषत्, घुषत् | २३ |
२४. अद् व्यञ्जनाच्छयवासवासिष्वकालात्
शयादिषूत्तरपदेषु अद्व्यञ्जनान्तादकालात् परा सप्तमी लोप्या वा भवति । मञ्चेशयः, मञ्चशयः । दृशदिशयः, दृशच्छयः । ग्रामेवासः, ग्रामवासः । नीवृतिवासः, नीवृद्वासः । ग्रामेवासी, ग्रामवासी । नीवृतिवासी, नीवृद्वासी । अद्व्यञ्जनाद् इति किम् ? भूमिशयः, खट्वाशयः । अकालादिति किम् ? प्रभाशयः, अहः शयः, ग्रीष्मवासः, शरवासी ।। २४ ।
२५. हृदिस्पृग् - दिविस्पृशौ
एतौ निपात्येते । हृदयं दिवं स्पृशतीति हृदिस्पृक् दिविस्पृक् । निपातनात् कर्मणि सप्तमीयमिति वृद्धाः ||२५|
,
२६. यन्मतियोनिष्वपस्तत्पुरुषे
अपो यत्प्रत्यये मतियोन्योश्च उत्तरपदयोस्तत्पुरुषे सप्तमी लोप्या न भवति । अप्सु भवम् अप्सव्यम् | दिगादित्वाद् यत् । अप्सु मतिः, अप्सु योनिः । पक्वादित्वात् सप्तमीसमासः । तत्पुरुष इति किम् ? अप्सुमतिर्योनिश्चास्य अम्मतिः, , अब्योनिः ः ||२६| २७. मध्येगुर्वन्तेगुरु
एतौ सप्तमीतत्पुरुषे साधू भवतः । मध्येगुरुः, अन्तेगुरुः । तत्पुरुष इत्येव । मध्येऽन्ते गुरुरस्य मध्यगुरुः, अन्तगुरुः ॥ २७ ॥