________________
६०४
कातन्त्रव्याकरणम्
अकिञ्चित्करः । लवणं न भुङ्क्तेऽलवणभोजीत्यादयः । तथा परिभाषाऽपीयं क्वचिद् विधित्वेनोपादीयते । पुरुष उत्तमः पुरुषोत्तमः, मुनिप्रवरः, अध्वगन्तव्य इत्यादि । तथा पूर्वं भूतः भूतपूर्वः, कृतपूर्वः । तथा पुनः प्रवृद्धादिष्वनेनैव समासः । पुनः प्रवृद्धम्, पुनर्लेनं सहभूतम् । तथा सहभावः, द्विर्भावः, अधोभुवनम्, द्विवचनम् । द्विरुक्तिः अस्तमयः, अस्तमितवान्, बहिष्कृतम्, बहिर्भूतमित्यादि । आकृतिगणोऽयम् ।
__ भाष्येऽप्युक्तम् – पुनः प्रवृद्धादिषु समासवचनं कर्तव्यमिति । तथा मयूरव्यंसकादिपात्रेसमितादि-खलेयवादि-तिष्ठद्गुप्रभृतीनामिति च पुनरसमासः । परमो मयूरव्यंसकः, मयूरव्यंसकस्य धनम्, परमाः पात्रेसमिताः, पात्रे समितानां गावः, परमं खले यवम्, परमं तिष्ठद्गु, परमं दण्डादण्डि, कृतं दण्डादण्डि येनेत्यादि वाक्यमेव । तिष्ठद्गुप्रभृतीनां पुनरव्ययीभावमिच्छन्ति । उपतिष्ठद्गु, अधितिष्ठद्गु ।।१।
२. तत्स्थाः तच्छब्देनेह युक्तार्थोऽनुकृष्यः प्राग् विपर्ययात् । समासस्य च सान्निध्यादिष्यते वृत्तिलक्षणः॥१॥ स च लिङ्गं च धातुश्च द्विधैव परिशिष्यते। धातुलिङ्गकदेशस्य स्यादेरेवं हि लोप्यता ॥२॥ ऐकार्थ पृथगर्थानां तत्र युक्तार्थताऽथवा ।
असम्बन्धव्यपोहार्य योगग्रहणमप्यलम् ॥३॥ 'नीलोत्पलम्, वक्रमुखः, धेनू, कुण्डे प्राप्तः । ऋषिप्राप्तः, धेनुप्राप्तः, कुण्डप्राप्तः, त्वत्कल्पः, मत्कल्पः, युष्पत्पाशाः, अस्मत्पाशाः, त्वत्कपितृको मत्कपितृकः । त्वत्पुत्रः, मत्पुत्रः, गिरिस्थः, मेरुस्थः, अष्टरथः, अष्टभार्यः' इत्यादौ त्वकृतलक्षणेषु कौमाराः कार्यार्थं कृतमपि संस्कारं निवर्तयन्तीति स्यादयः पुनरुत्थाप्य लुप्यन्ते, व्यञ्जनान्तस्य सन्ध्यक्षरान्तस्येत्यादिनिर्देशोऽस्य न्यायस्य लिङ्गम् ।।२।
३. अलोप्योत्तरपदे समासान्तं लिङ्गमुत्तरपदमिति रूढिः । उत्तरपदे परस्मिन् लोप्यो न भवतीत्यधिकर्तव्यम् ||३|
४. तमोऽनःसहोभ्यस्तृतीया एभ्यः परा तृतीया उत्तरपदे लोप्या न भवति । तमसावृतम् । इह तमसः पाठो न्याय्यः। 'तमु काङ्क्षायाम्' (३/४३) इत्यत्र तमसा वृतम् इति चिन्तितत्वाद्