________________
५२८
कातन्त्रव्याकरणम्
कृत्वा पश्चात्तदन्तेन समासे सति समासावयवत्वमुपपद्यते, अन्तशब्दस्यावयववाचित्वात् । अथवा समासस्य पश्चादपि विधीयमानस्य समासावयवत्वं वचनान्मन्यते । तदापि तद् युक्तमेवेति मन्यमान आह - अवयवावयवोऽपीत्यादि । राजादयस्तावदवयवाः समासस्यारम्भकत्वात् तदवयवोऽपि वचनाद् भवन् अयमव्यवधायक एव । यथा लोके देवदत्तस्यावयवान्तर्भूता व्रणकिणादयो देवदत्तग्रहणेन गृह्यन्ते इति भावः ।। ४०७।
[वि० प०]
समासान्त० । अत् अन्तो येषां ते अदन्तास्तेषां भावोऽदन्तता | ननु अद् विधीयमानोऽन्तत्वेनागम एव स्यान्न प्रत्ययः । ततश्च तन्निबन्धनमिवर्णावर्णयोरित्यादिकार्य कथमस्मिन् भवतीति । नैवम्, वाशब्दोऽत्र समुच्चयार्थो न विकल्पार्थः । तेनादन्तता भवति एवं सम्बन्धनीयम् । अतोऽप्रत्ययो वा अदन्तता वा राजादयो निपात्यन्त इत्याह - अत् प्रत्ययो वेत्यादि । एवं च सति वाक्यान्तर्गतानां वेति वृत्तिपाठोऽशुद्ध एव लक्ष्यते समुच्चयस्यान्यथासमर्थितत्वात् । तथा च टीकायां वाशब्दोऽत्र समुच्चयार्थत्वेन सम्बध्यते, न तु विकल्पार्थत्वेन । राजादयोऽदन्ता वा अत्प्रत्ययो वेति । अधाव्ययानामनेकार्थत्वाद् एवमपि समुच्चिनोति । को निवारयिता केवलं फलमेव नोपलभामहे |
न चैवं शास्त्रान्तरमस्ति । पुस्तकान्तरे च सूत्रार्थविवरणमेव नास्ति तदेवं युक्तमुत्पश्यामः । ननु चास्मिन् पक्षे समासनिप्यत्ते : प्राक् समासार्थात् पदाद् अतं कृत्वा पश्चात् तदन्तेन समासे सत्यारम्भकत्वात् समासादयवोऽयम् अप्रत्ययो युज्यते, यदा तु समासान्तगतानां वा राजादीनामद् विधीयते, तदा राजादिभुक्तत्वादनेन समासो व्यवधीयते एवेति । कथं समासात् परं विधीयमानमन्तावादिकार्यं स्यादित्याह – अवयवेत्यादि । राजादयस्तावदवयवाः समासारम्भकत्वात् तेषां राजादीनामवयवोऽद् भवन् समासस्यापि भवतीति कथं व्यवधायको नाम । यथा देवदत्तस्यावयवेऽन्तर्भूता व्रणकिणादयोऽपि देवदत्तग्रहणेन गृह्यन्ते इति भावः । उपराजम्, अध्यात्मम् इति । राज्ञः समीपम्, आत्मन्यधीति विग्रहे अदन्तेति वचनादत् । द्विपुरी, त्रिपुरीति । द्वयोः पुरोः, तिसृणां पुरां समाहार इति विग्रहे “पन्थ्यप्पुरः" (२/६/४१-१९) इति अत् । सक्त्वचिनीति । स च त्वक् चेति विग्रहे "समाहारद्वन्द्वश्चवर्गदषहान्त" (२/६/४१३६) इत्यत् । ततः मक्त्वचमस्यास्तीति इन्, स्त्रियामीप्रत्ययः ।। ४०७।