________________
कातन्त्रव्याकरणम्
तृतीया । कर्ता क्रियाविशिष्टं यत् साध्यते, तत् कर्मेति केचित्' । कथमेतद् इत्यादि । क्रियते इत्यत्र कृधातुस्तावत् क्रियासामान्यवचनोऽसदुत्पादनवचनश्च । तत्र सामान्यक्रियावचनः कथं गृह्यते । असदुत्पादनवचनो वा कथन्न गृह्यते ? ततश्च कर्ता यदुत्पाद्यते इत्यर्थे सति असत्याः क्रियाया उत्पादनात् तस्या एव कर्मसंज्ञा स्यात् । यतः क; हि मुख्यत्वात् क्रियैव क्रियते उत्पाद्यते इत्येतदेवाह - क; हीत्यादि । अत्र क्रियाया एवात्मनेपदवाच्योत्पादनक्रियाजन्यफलभागित्वादिति भावः ।
यद् वा वैयाकरणानां मते आख्यातस्य क्रियाप्रधानत्वात् तस्य च साध्यतावगमकत्वेन कृञ्धातोः क्रियामात्रेऽर्थे यदिति पदस्य कियया सामानाधिकरण्यसम्भवे सति | व्यधिकरणकल्पनायां मानाभावात् साध्यताविशिष्टं यत् करणं तत् कर्मेत्यर्थः कथन्न स्यादिति भावः । अस्मिन् पक्षे क्रियते इत्यस्य क्रियासामान्यवाचितैव बोध्या । सत्यमित्यादि । ननु क्रियायाः कर्मकार्याभावं प्रत्यमूर्तत्वं कथं हेतुः । नहि मूर्तादेर्घटपटादेरमादिविधिरस्ति, किन्तु तद्वाचकात् शब्दात् । अतोऽत्रापि तद् भविष्यति । न चामूर्तवाचकात् शब्दाद् अमादिविधिर्नास्तीति वाच्यम् । पचनं करोतीत्यादौ द्वितीयानुपपत्ते: ३ ।(द्वितीयोपपत्तेः) तद्वाचकस्य पाकादिशब्दस्य कर्मकार्यसंभवादिति चेत्, नैवम् । पाकादिशब्दानां केवलक्रियावाचकत्वाभावात् । यावता भावे विहितस्य कृत्प्रत्ययस्य सिद्धतावगमाद् द्रव्यत्वेन प्रतीतिः । तथा च भावे विहितः कृत्प्रत्ययो द्रव्यवत् प्रकाशते इति । ननु तथापि सिद्धतासाध्यतारहितस्य केवलक्रियावाचकस्य पचत्यादेः कर्मसंज्ञायां कर्मणि विहितात्मनेपदादि कर्मकार्यमेव कथन्न स्यात् ? नैवम् । सिद्धतासाध्यतारहितस्य पचत्यादेः कारकत्वानुपपत्तेः । सिद्धं हि कारकं भवतीति
१. अधर्माज्जुगुप्सते इत्यादौ संबन्धध्वंसरूपफलस्य धातुवाच्यत्वेन विवक्षितत्वात् कर्मत्वे प्राप्ते धात्वर्थतावच्छेदकीभूतेति विशेषणेनैव निराकरणीयं संबन्धध्वंस्योद्देश्यत्वेन विवक्षितत्वात्, किन्तु उद्देश्यत्वेन धर्मस्यैव विवक्षेति भावः । २. अत्र पक्षे कृधात्वर्थः उत्पत्त्यनुकूलकृतिः आत्मनेपदार्थ: फलप्रयुज्यसंबन्धानुयोगित्वम्, धातोरर्थ उत्पादना क्रिया, आत्मनेपदवाच्यतज्जन्योत्पत्तिरूपफलविशिष्टानुयोगिनिरूपितानुयोगितायाः क्रियायाः सत्त्वाद् इत्यर्थः । ३. पचनं करोतीत्यादौ अमूर्तवाचकस्य पाकादिशब्दस्य कर्मत्वं न स्यादेव कर्मकार्यासंभवादित्यभिप्रायः ।