________________
८३
नामचतुष्टयाध्याये चतुर्थः कारकपादः न्यायात् कर्मणि द्वितीयाविधिवैयर्थ्याच्च । एतेनामूर्तायाः सिद्धत्वेनाप्रतीयमानायाः इत्येवार्थः।
यद् वा अमूर्ताया असत्त्वभूतायाः इत्यर्थः । ततोऽसत्त्वभूतत्वे सति क्रियाया एकत्वादिसंख्याविरहात् संख्यावाचकस्यात्मनेपदादेरयोगादिति भावः । टीकायां तु कर्मणि आत्मनेपदनिर्देशादेव क्रियावाचकस्य पचत्यादेर्न कर्मत्वमिति । अन्यथा क्रिया कर्मेति विदध्यादित्युक्तम् । यत् पूर्वमसदेव जायते इति । उत्पत्तिरूपं यत् क्रियाफलं तद्भागीति यावत् । उत्पत्तिश्च स्वरूपप्रतिलम्भः । असतः सत्त्वम् आद्यक्षणसंबन्ध' इति नैयायिकाः। सांख्यमतमवलम्ब्याह - जन्मनेति । तेन हि नासदुत्पद्यते न च सद् विनश्यति' इति कारणेषु कार्यस्य शक्तिरूपेणावस्थितिः । अत एवाविर्भाव एवोत्पत्तिर्न स्वरूपप्रतिलम्भः उत्पत्तिविनाशयोराविर्भावतिरोभावस्वरूपत्वादित्याहुः । यल्लब्धसत्ताकमिति । लब्धा सत्ता विद्यमानता येन तल्लब्धसत्ताकं विद्यमानं वस्त्वित्यर्थः ।
ननु काष्ठस्य दहनक्रियया प्रागेव नाशात् कथं तस्य भस्मरूपावस्थान्तरप्राप्ति, किन्तु देवदत्तं रोषयति', सुवर्णं कुण्डलं करोतीत्यादावेवावस्थान्तरप्राप्त्या विकार्यत्व
१. ननु भवन्मते क्रियायाः कारकत्वमवश्यमेवाङ्गीकर्तव्यम् । कथमन्यथा स्तोकं पचतीत्यादि सिध्यतीत्याह - कर्मणि द्वितीयेति । ननु कथमुच्यते कर्मणि द्वितीयाविधिवैयर्थ्यादिति, यावता क्रियाप्रतिपादकस्तोकादिशब्दाद् द्वितीयास्तीति प्रयोजनम् ? सत्यम् । एकवचनं नहि द्विवचनादि । अत
आख्यातस्य प्रयोजनं नास्तीति । एतेनैतदायातम् । तस्माद् व्यापकद्वितीयाविधिवैयर्थ्यात् सिद्धतासाध्यतारहितस्य केवलस्य पचादेर्न कर्मत्वमिति।। २. आद्यक्षणसंबन्धस्तु स्वाधिकरणसमययोगध्वंसानधिकरणसमयसंबन्धः । तथा च तार्किकशिरोमणिः'अध्वस्तक्षणयोगस्य क्षणयोगो जनिर्मता' । न ध्वस्तः क्षणयोगो यस्येति विग्रहः । स्वाधिकरणसमयध्वंसानधिकरणत्वे सति स्वाधिकरणसमयत्वमाद्यक्षणत्वम् । ३. कारणेषु समवायिकारणेषु कपालादिषु शक्तिरूपेण सूक्ष्मरूपेण कार्यस्यावस्थितिः । अथवा शक्तिरूपेण कारणताशक्तिरूपेण कार्यस्यावस्थितिरिति। ४. यद् वस्तु अवस्थान्तरमापद्यते इत्यनुक्त्वा कथमुक्तं यल्लब्धसत्ताकमिति पूर्वपक्षे को हि शशशृङ्गं धनुः करोतीति विकार्यव्यावृत्त्यर्थमिति वदति । वस्तुतस्तु यत्र प्रकृतिविकारयोरुभयोः प्रयोगस्तनव विकार्यत्वप्रतिपादनार्थम् । यथा काशान् कटं करोतीति । यत्र न प्रकृतेः प्रयोगस्तत्र कटं करोतीति निर्वर्त्यमेव न विकार्यमिति भव्याः। ५. देवदत्तं रोषयति । देवदत्तं क्रोधं जनयति चैत्र इत्यर्थः । अत्र लब्धसत्ताको देवदत्तो हर्षपरित्यागानन्तरमवस्थान्तरं क्रोधरूपमापद्यते ।