________________
८४
कातन्त्रव्याकरणम्
संभवः । ततश्च देवदत्तं रोषयतीतिवद् ग्रामं गच्छतीत्यत्रापि संयोगरूपावस्थान्तरप्राप्तिसत्त्वेन प्राप्ये कर्मण्यपि विकार्यत्वसम्भवादतिप्रसङ्गः स्यात् ? सत्यम् । स्वस्वसमवेतान्यतरविनाशकक्रियाफलमेवावस्थान्तरपदेनोक्तम् ।
अस्यायमर्थः। स्वम् आत्मा काष्ठादिरिति यावत् । स्वसमवेतं सुवर्णादिसमवेतं यद्धर्मादिकं तयोः स्वसमवेतयोरेकतरविनाशकं यत् क्रियाफलम्, क्रियया यत् साध्यते भस्मादिरूपं तदेवावस्थान्तरपदेन विवक्षितम् । तद् यथा - काष्ठं भस्म करोतीत्यत्र स्वस्य काष्ठस्य विनाशकं क्रियासाध्यरूपं यद् धर्मादिफलं तत् काष्ठं कर्त प्राप्नोति । 'देवदत्तं रोषयति' इत्यत्र पूर्वधर्मस्य हषदिः, काशान् कटं करोतीत्यत्र काशावयवस्य विनाशाद् विकार्यता यथायथं बोध्या | ग्रामं गच्छतीत्यादौ पुनामस्य तद्धर्मस्य वा कस्यचिन्नाशो नोपपद्यते एव । न च देवदत्तस्य ग्रामे संयोगरूपावस्थान्तरेण ग्रामस्य पूर्वावस्थितासंयोगित्वरूपधर्मस्य नाश इति वाच्यम्, असंयोगित्वं हि संयोगाभावः। तस्य च समवायसम्बन्धेन ग्रामे वर्तमानत्वाभावात् । किन्तु स्वरूपसंबन्धेनैवाभावो वर्तते इति स्थितम् । प्राप्यं चेत्यादि । न प्रतीयन्त इत्यत्र क्रियाफलव्यतिरेकेणैव बोद्धव्यम् ।
यदसदित्यादि । असदिति नैयायिकमतेन, जन्मनेति साङ्ख्यमतेनोक्तम् । यत्र प्रकृतिरसती सती वा न विवक्ष्यते, तन्निवर्त्यमिति । यथा संयोगं जनयति । न ह्यत्र संयोगस्य कदाचिदपि प्रकृतिरस्ति । कटं करोतीत्यत्र विद्यमानापि काशप्रकृतिर्न विवक्ष्यते । तदुक्तम् -
सती वा विद्यमाना वा प्रकृतिः परिणामिनी। यस्य नाश्रीयते तस्य निर्वय॑त्वं प्रचक्षते ॥ (वा०प०३।७।४७)।
१. स्वसमवेतान्यतरक्रियाफलमेवावस्थान्तरपदेन कथ्यते इति लक्षणेऽभिप्रेतसिद्धौ किं स्वसमवेतत्वघटकस्वपदेन, नैवम् । ग्रामं गच्छतीत्यादौ स्वभिन्नचैत्रसमवेतस्पन्दननाशकसंयोगादिशालित्वाद् ग्रामादावभिव्याप्तिरिति स्वनाशस्थलेऽपि स्वसमवेतनाशोऽस्ति किं स्वपदेन, नैवम् । तदा कृष्णं शुक्लं करोतीत्यादौ विकार्यताप्रतीतिर्न स्यात् । स्वनाशकमित्युक्ते सुवर्णं करोतीत्यादौ अव्याप्तिरिति । २. ननु तथापि ग्रामं गच्छतीत्यादौ दूरत्वस्यादैशिकपरत्वेन गुणत्वात् तस्य ग्रामे समवायसम्बन्धेन वृद्धित्वाद् ग्रामस्य दूरत्वनाशकसंयोगरूपफलशालित्वाद् ग्रामस्यापि विकार्यता स्यात्, नैवम् । समवेत इत्यत्र स्वमात्रेति निवेशनीयं ततो दूरत्वस्य ग्रामे, एवं चैत्रेऽपि समवायेन वृत्तेर्न विकार्यता तर्हि न च देवदत्तस्य ग्रामे संयोग इत्यादि कविराजपङ्क्त्यसङ्गतापत्तिः ? सत्यम् । केचित्तु दूरत्वं सूर्यसंयोगभूयस्त्वसंबन्धश्चेतीत्याहुः । तन्मते ग्रामादौ समवायसंबन्धेन वृत्तित्वाभावान्न दोषः । यदा तन्नाशकपादविहरणमेव न तु संयोग इति कश्चित् । ३. अथ यत्र पूर्वोक्तविशेषाः दर्शनादनुमानाद् वा न प्रतीयन्ते, तत्र प्राप्यमित्युक्ते आदित्यं पश्यतीत्यादौ अपि प्राप्यत्वं न स्याद् अत्रापि पूर्वोक्तविशेषक्रियाफलस्य सत्त्वादित्याह-क्रियाफलव्यतिरेकेणेति पत्रीकारेणापि विशेषा इत्यनेन तत् सूचितम् ।