________________
नामचतुष्टया याये चतुर्थः कारकपादः परिणामिनीत्यावश्यके णिनिः । यस्य प्रकृतिः परिणामयित्री दशान्तरं प्राप्तेत्यर्थः । (अत एव त्रिलोचनेनापि तण्डुलान् ओदनं पचतीत्युक्तम्) । यदि पुनः काशान् कटं करोतीत्युभयमेव विवक्ष्यते तदा विकार्यतैव । विकार्यं तु कर्म द्वेधा व्यवस्थितम् इति । द्विविधमेवाह - प्रकृत्युच्छेदेत्यादि । अत्र कस्यचिन्मते काष्ठं भस्म करोतीत्यादौ काष्ठस्य विकार्यत्वमिति । कस्यचिन्मते भस्मनः, कस्यचिन्मते उभयोरपि । तत्र आये कारिका एवं व्याख्यायते – 'प्रकृत्युच्छेदसम्भूतम्' इति । प्रकृतेः स्वभावस्योच्छेदो विनाशस्तं संभूतं प्राप्तं काष्ठादि किंभूतं भस्मवद् भस्मयुक्तम्, अवर्णोपधत्वाद् वन्तुः । इदं पुनः साङ्ख्यमते काष्ठावस्थायामपि शक्तिरूपेण भस्मनः सम्भवाद् इत्युक्तमिति न दोषः । ते हि कारणेषु शक्तिरूपेण कार्यावस्थितिरित्याहुः । एवं गुणान्तरोत्पत्त्या हेतुभूतया सुवर्णादि कार्यम्, किम्भूतं विकारवदिति । एतन्मते विकाराख्यं भस्मादिकमवस्थान्तरं यत् काष्ठादिकं नीयते तद् विकार्यमिति काष्ठसुवर्णादौ विकार्यशब्दार्थः संगच्छते । अत एव पत्रीकृतापि ओदनं पचतीत्यत्र तण्डुलानिति शेष इत्युक्तम् । अस्मिन् पक्षे ओदनमिति प्राप्यं कर्म ।
ननु यदि प्रकृतेरेव विकार्यता तदा कथं "कर्मण्यण" (४।३।९७) इत्यत्र काण्डकारः इति विकार्ये उदाहरणं संगच्छते, काण्डस्याविकारत्वात् ? सत्यम् । तत्र करोतेः क्रियासामान्यवाचित्वात् काण्डं छेदादिक्रियाविशिष्टं जनयतीत्यर्थे सति काण्डस्य प्रकृतित्वाद् विकार्यतेति न दोषः । तर्हि कथं 'शरलावः' इत्यत्र प्राप्ये दर्शितम् अनया रीत्याऽस्यापि विकार्यत्वात् ? सत्यम् । अत्र छेदनक्रियया शरस्य विकारो नोत्पन्नः, किन्तु खड्गपर्णसंयोगमात्रमत्र बोद्धव्यमिति | ओदनस्य निर्व~विकार्यलक्षणाभावात् प्राप्यतैव । यत्तु टीकायां तण्डुलान् विकारयन् ओदनं निवर्तयतीत्युक्तम्, तत्र निष्पादयतीत्येवार्थः । यत्तु कुलचन्द्रेण काशानिति विकार्यं कटमिति निर्वत्र्यं कर्मेत्युक्तम्, तच्चिन्त्यम् । (मतान्तरेण वा समाधेयमिति) |
१. ननु काष्ठे भस्मनोऽसंभवात् कथं वन्तुः, येन भस्मयुक्तमित्युच्यते इत्याह - इदं पुनरिति । २. ननु विकृतिविशिष्टं यत् तद् विकार्यमिति विकार्यशब्देनायातम् । तत् कथं काष्ठादेर्विकार्यत्वमित्याह - विकाराख्यमित्यादि । अवस्थान्तरं भस्मादिकं विकाराख्यं नीयते प्राप्यते अनेन यत् काष्ठादिकं तद् विकार्यमित्यर्थः । ३. यस्मिन् पक्षे प्रकृतेरेव विकार्यत्वव्यवहारस्तस्मिन् पक्षे निवर्त्यविकार्ययोर्महाभेदाद् अवयवप्रकृतिरसती सती वा न विवक्ष्यते तन्निवर्त्यमिति लक्षणस्याभावे काशान् कटं करोतीत्यादौ सुतरामेव निवर्त्यलक्षणविषयत्वात् कटशब्दस्य निर्वर्त्यकर्मत्वमिति इदमेव केनचिद् उक्तम् । तन्मतम् अवलम्ब्याह-मतान्तरमिति ।