________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
८१ न प्रतीयते इति । धातुवाच्यफलत्वेन संयोगरूपफलस्याविवक्षितत्वात्। तदुक्तं भट्टचरणैः
क्रियावच्छेदकं यस्य फलं का विवक्षितम् ।
तदेव कर्मधातुस्तु फलानुक्तावकर्मकः॥ इति । अत एव धातूनां समानार्थत्वेऽपि फलावच्छिन्नव्यापारवाचित्वे सति सकर्मकता । केवलव्यापारवाचित्वे सति अकर्मकता । एतदेव पाणिनिनापि “कर्तुरीप्सिततमं कर्म" (अ० १।४।४९) इत्यत्र तमग्रहणेन विवक्षितमिति संक्षेपः। ननु कर्तुः क्रियया यद् व्याप्यते तत् कर्मेति वक्तुमुचितम् । कथं का यत् क्रियते इत्युक्तमित्याह - अभेद इत्यादि । कर्तृक्रिययोरभेद इत्यर्थः । भेद इति विशेष्यप्रतिपादने क्रियया इत्यर्थः । कर्तुः क्रियया इत्यत्र कृञर्थः क्रियासामान्यम् प्रत्ययार्थश्च व्याप्यम् । एतेनात्र क्रिययेति कर्तरि तृतीया ।कर्तुः क्रियया कर्तृभूतया यत् साध्यते तत् कर्मेत्यर्थः । कर्तुः क्रिययेति विशेषणे
संयोगस्यानुद्देश्यत्वेनैव धात्वविच्छेदकीभूतत्वाभावात् तत्र ग्रामसंयोगस्यैवोद्देश्यत्वात् । उद्देश्यत्वं चेह न क्रियाप्रवृत्तिहेतुभूतेच्छाविशेष्यत्वरूपविषयत्वम् । अपि तु चरमफलत्वमिति । ओदनपाकमध्ये नान्तरीयकमाषपाकेऽपि माषं पचतीति प्रयोगवारणार्थं माषवृत्तिफलस्योद्देश्यत्वाभावात् । तक्रियाजन्यविशेषणं च व्यापारे साक्षाज्जनकतासंबन्धेनान्वयफलशालित्वेन कर्मत्वमिति ज्ञापनार्थम् । तेन घटो नश्यतीति । अत्र नशधातो शानुकूलसहकारिसत्ताविशेषार्थत्वेऽपि न कपालस्य कर्मत्वम् । सहकारिपदार्थव्यवधानेन नाशस्य साक्षाज्जनकतासंबन्धेन सत्तायामन्वयाभावादेतेन तत्र सहकारि पदमपि सार्थकम् । १. धातुवाच्य इति विशेषणं पतिवृद्ध्योरुत्तरदेशसंयोगशालित्वेन कर्मत्ववारणार्थं कविराजोक्तं व्यर्थम् अवच्छेदकीभूतत्वेन तन्निषेधात् । न हि पतनवर्धनयोरवच्छेदकत्वं स्याद् उत्तरदेशसंयोगः । तथा च शिरोमणिः - स्पन्दनमात्रं पतेरर्थो न विभागावछिन्न इति । २. अस्यार्थः । यस्य गमादिधातोः क्रियावच्छेदकं क्रियाविशेषणीभूतं यदुत्तरदेशसंयोगादिरूपफलं तद् यदा क; धातुवाच्यत्वेन विवक्षितं तदा धातुः सकर्मक इति । यथा ग्रामं गच्छति । अत्र गमिवाच्यस्पन्दनजन्यसंयोगरूपस्य धातुवाच्यत्वेन विवक्षितत्वाद् ग्रामस्य कर्मत्वमिति । फलानुक्तावकर्मको यथा - ग्रामे गच्छतीति । यस्य पचधातोः क्रियावच्छेदकं क्रियाविशेषणं यद् विक्लित्तिरूपं तद् यदि अधिश्रयणादिव्यापारजन्यत्वेन विवक्षितं तदा सकर्मकः । यथौदनं पचतीति फलानुक्तौ केवलविक्लित्तिमात्रस्य स्वातन्त्र्येणोक्तावकर्मकः । यथा ओदनः पचतीत्यर्थः।। ३. अभेदपक्षे तु कृत्रोंः व्याप्तिः । आख्यातार्थः आश्रयता । एतेन कर्तृस्वरूपया क्रियया यद् व्याप्यं तत् कर्मेति पर्यवसितम् । व्याप्यत्वं तु स्वजन्यफलवत्त्वसंबन्धेन बोध्यम् । अन्यथा कर्तर्यतिप्रसङ्गः स्यादिति ।