________________
कातन्त्रव्याकरणम् अथ किमपेक्ष्य परत्वं गृह्यते । न च फलाश्रयभिन्नत्वं परत्वमिति वाच्यम्, 'देवदत्तो ग्रामं गच्छति' इत्यत्र देवदत्तस्यापि फलाश्रयभिन्नत्वाभावेन (परत्वाभावात् तत्समवेतक्रियाजन्यफलभागित्वेऽपि) ग्रामस्य कर्मत्वाप्रसङ्ग इति चेत्, तक्रियानाश्रयत्वे सति तक्रियाजन्यफलभागित्वमिति ब्रूमः । अथ तर्हि ‘पर्वतादवरोहति' इत्यत्र' पर्वतस्यापि स्पन्दनक्रियानाश्रयत्वेन स्पन्दनक्रियाजन्यविभागरूपफलाश्रयत्वात् कर्मत्वं स्यादिति चेत्, उच्यते - तक्रियानाश्रयत्वे सति धात्वर्थावच्छेदकीभूततक्रियाजन्यफलभागित्वं कर्मत्वमिति ।
धात्वर्थावच्छेदकीभूत इति फलस्य विशेषणम् । यदुद्दिश्य क्रिया प्रवर्तते तदवच्छेदकम् । अवरोहणक्रियाया उत्तरदेशसंयोगरूपफलस्यैवोद्देश्यत्वेन प्रतीयमानत्वम् । अतो विभागाश्रयत्वात् पर्वतस्य न कर्मसंति । उत्तरदेशसंयोगस्तु पर्वते न विद्यते एव । तर्हि 'भूमौ पर्णं पतति, नदीतीरे प्लवो वर्धते' इत्यादौ भूमितीरयोस्तक्रियानाश्रयत्वे सति संयोगरूपफलभागित्वादभिव्याप्तिः स्यादिति चेत्, फलस्य धातुवाच्येति' विशेषणं देयम् । एतेन तक्रियानाश्रयत्वे सति धात्वर्थावच्छेदकीभूततक्रियाजन्यधातुवाच्यफलभागित्वं कर्मत्वमिति । अत्र च वृद्धिपतनयोरुत्तरदेशसंयोगो धातुवाच्यफलत्वेन
१. एतेन पर्वतादवरोहतीत्यत्र संयोगरूपफलापेक्षया विभागरूपफलापेक्षया विभागरूपफलस्यातिरिक्तत्वान्नातिव्याप्तिः । वृक्षात् पर्णं पततीत्यत्र च विभागरूपफलस्योपलक्षणतया विद्यमानत्वात् न्यूनवृत्तित्वमस्तीति भावः । उच्चान्नीचगमनमवरोहणम् ।। २. धातुवाच्यपदेन धात्वर्थवाचकवाच्यमिति लक्षणयोच्यते । तेन ‘अतिखट्वः' इत्यादावपि न काचित् क्षतिरिति गुरुः। ३. फलभागित्वं च वृत्तिनियामकसंबन्धेन चेत् 'घटं नाशयति' इत्यत्र घटनाशस्य प्रतियोगितासंबन्धेन वृत्तित्वादव्याप्तिः । अतः प्रतियोगितासंबन्धोऽपि निवेश्यः । कारकचक्रे – 'विष्णुं यजते' इत्यत्रोद्देश्यतासंबन्धेन फलभागित्वेऽपि कर्मत्वस्यासक्तत्वाद् उद्देश्यतापि निवेशनीया, तेन वृत्तिनियामक उद्देश्यता एतदन्यतरसम्बन्धेन फलभागित्वं कर्मत्वमिति । इषधातुप्रयोगे मुख्यविशेष्यतारूपं कर्मत्वम्, तेन वृष्टिसाध्यं सुखं भवतु इति इच्छायां 'वृष्टिमिच्छति' इति न प्रयोगः । तर्हि अहं सुखी स्याम् इति इच्छायां मुख्यविशेष्यताभावात् सुखमिच्छतीति प्रयोगो न स्यात् ? नैवम्, अत्र विलक्षणविषयतायाः सुखे स्वीकारात् कर्मत्वमिष्टम् ।
तक्रियानाश्रयत्वे सति धात्वविच्छेदकीभूततक्रियाजन्यधातुवाच्यफलशालित्वं कर्मत्वमिति निर्मूढं कर्मलक्षणम् । ननु फलांशे धातुवाच्येति विशेषणबलेनैव पर्वतादवरोहतीत्यादावतिप्रसङ्गाभावाद् धात्वविच्छेदकीभूतेति विशेषणं व्यर्थम् ? सत्यम् । ग्रामं गच्छतीति व्यवहारदशायां पन्थानं गच्छतीति प्रयोगापत्तिदुर्निवारैव धात्वर्थावच्छेदकीभूतेति फलांशे विशेषणसत्त्वे संयोगस्य धातुवाच्यत्वेनैव पथि