________________
नामचतुष्टयाध्याये चतुर्षः कारकपादः
७९ यथा – 'मासमास्ते, क्रोशमास्ते, ओदनपाकं शेते, कुरून् स्वपिति' इति । तन्न वक्तव्यम् । अकर्मका अपि धातवोऽन्तर्भूतक्रियान्तराः सन्तः सकर्मका एव भवन्ति, यस्मादन्तभूतप्रापणाक्रियेषु उपवेशनादिष्वासिप्रभृतयो धातवो वर्तन्ते इति युक्तम्, तैर्योगे कर्मत्वमिति । तथा चाह -
कालाध्वभावदेशानामन्तर्भूतक्रियान्तरैः।
सर्वैरकर्मकोंगे कर्मत्वमुपजायते ॥ (वा० प० ३।७।६७)। तर्हि 'मासमास्ते' इत्यादिष्वेव क्रियासंबन्धस्य विद्यमानत्वात् कर्मत्वं स्यान्न द्रव्यगुणयोः संबन्धे क्रियानिमित्तत्वात् कारकस्येति । कथं 'मासं गुडधानाः, क्रोशं कुटिला नदी' इति, तस्मात् "कालाधनोरत्यन्तसंयोगे" (अ० २।३।५) इति द्वितीयार्थं वक्तव्यम् इति अयुक्तमित्याह - भवतेर्गम्यमानत्वादिति। भवतिरत्रान्तर्भूतक्रियान्तरो गम्यते इति ।।२९८।
[क० च०]
यत् । ननु का यत् क्रियते यत् संबध्यते तत् कर्मेत्युक्ते स्वक्रियासंबन्धात् कर्तुरपि कर्मसंज्ञा स्यात् ? सत्यम् । क्रियते इत्यत्र कृधातुना कृमात्रमुच्यते । 'कर्मणि विहितेन आत्मनेपदेन च क्रियाजन्यफलभागित्वम्, ततश्चौदनं पचतीत्यादौ ओदनस्य पचिवाच्याधिश्रयणादिजन्यविक्लित्तिरूपक्रियाफलभागित्वात् तस्यैव कर्मत्वं न कर्तुरिति । एतेन क्रियाजन्यफलभागित्वं कर्मत्वमिति कर्मलक्षणम् । अथ तर्हि 'ग्रामं गच्छति देवदत्तः' इत्यादौ गतिक्रियाजन्यसंयोगरूपफलभागित्वाद् यथा ग्रामस्य कर्मत्वं तथा कर्तुरपि स्यादिति चेत्, परसमवेतक्रियाजन्यफलभागित्वं कर्मत्वमिति ब्रूमः । तेन आत्मसमवेतक्रियाजन्यफलभागित्वान्न कर्तुः कर्मसंज्ञेति |
१. क्रियानुकूलक्रियामात्रमित्यर्थः । मात्रशब्दोऽत्र काय॑परः । एतेन क्रियते इत्युक्ते पचादियोगे कथं संज्ञेत्यपि निरस्तम् । २. ओदने विक्लित्तिः समवायसंबन्धेन वर्तते तस्य प्रतियोगित्वमनुयोगित्वं वेत्यर्थः । विक्लित्तिरूपफलनिष्ठप्रतियोगित्वात् निरूपितानुयोगित्वात् फलभागो विद्यतेऽस्य फलभागी, तस्य भावः फलभागित्वम्, फलप्रतियोगित्वम्, फलानुयोगित्वं वेत्यर्थः । ३. एतेन ग्रामं गच्छतीत्यत्र कर्तुतिक्रियाश्रयत्वान्न कर्मत्वम् ।