________________
७८
कातन्त्रव्याकरणम्
दुहियाचिरुधिप्रछिभिछिचित्रामुपयोगनिमित्तमपूर्वविधै । विशासिगुणेन च यत् सचते तदकीर्तितमाचरितं कविना ॥
(म० भा० १।४।५१) इति । उपयुज्यते इत्युपयोगः। पयः प्रभृतिकं कर्म तस्य निमित्तं गवादि । अपूर्वविधावित्यनन्यविधावित्यर्थः । ब्रुविशास्योर्गुणः क्रियासाधनभूतं यत् प्रधानं कर्म तत् पुनर्धर्मादिकं तेन यत् सचते यत् संबध्यते शिष्यादिस्तदकीर्तितमाचरितम् = तदकथितमुक्तमित्यर्थः । तदेतन्न वक्तव्यम् - दुहादयो हि नयतिवत् स्वभावाद् द्विकर्मकाः अन्तर्भूतकारितार्थास्ततः सर्वत्र व्याप्तिरस्तीति । यथा प्रधाने कर्मणि पयःप्रभृतीनि द्वितीया, तथा अप्रधानेऽप्युपयोगनिमित्ते गवादौ यत् क्रियते तत् कर्मेति सामान्यविधानादित्याह – गां दोग्धि पय इत्यादि । तथा नयतीत्यादीनामपि द्विकर्मकत्वाद् उभयत्र द्वितीया सिद्धत्याह - अजाम् इत्यादि । तथा चोक्तम् -
नीवह्योर्हरतेश्चापि गत्यर्थानां तथैव च ।
द्विकर्मकेषु ग्रहणं ण्यन्ते कर्तुश्च कर्मणः॥(म० भा०१।४।५१) इति । इह श्लोके चकाराज्जयतिप्रभृतीनामपि ग्रहणम् । शीङादीनामकर्मकत्वात् तद्योगे कर्म न प्राप्नोति । ततः “अधिशीस्थासां कर्म" (अ० १।४।४६) इति वक्तव्यमिति, नैवम् । अध्युपसर्गसहिताः शीङादयः स्वभावात् सकर्मकाः एवेत्युदाहरति - ग्रामम् अधिशेते । तथा “अभिनिविशश्च" (अ० १।४।४७) इति न वक्तव्यम् । इहाधिकरणविवक्षापि दृश्यते । यथा संज्ञा संज्ञिन्यभिनिविशते । तथा "उपान्वध्याङ्वसः" (अ० १।४।४८) इत्यपि न वक्तव्यम् । दिवः प्रयोगे करणस्य पक्षे कर्मसंज्ञार्थं "दिवः कर्मच" (अ०१।४।४३) इति न वक्तव्यम् इत्याह-करणविवक्षेति। करणे विवक्षा करणविवक्षा, कर्मणः इति शेषः । अथवा यदि 'अक्षान् दीव्यति' इति कर्मत्वमुक्तम्, तत् कथम् अक्षर्दीव्यति' इत्याशक्य करणस्य विवक्षा करणविवक्षेत्युक्तम् । चन्द्रगोपी तु 'अक्षाणां दीव्यति, अक्षेषु दीव्यति' इति विवक्षातः एव मन्यते । कालाध्वभावदेशानां कर्मसंज्ञा वक्तव्या अकर्मकैरपि योगे | यथोक्तम् -
कालाध्वभावा मन्तव्याः कर्मसंज्ञा ह्यकर्मणाम् । देशश्चाकर्मणां योगे कर्मसंज्ञो भवेदिति ॥