________________
२१२
कातन्त्रव्याकरणम्
[दु० वृ०] ___ मनोरनन्त्ययोरनुस्वारो भवति धुटि परे । पुंसः । शान्तिः। उजिता । युौ । स्वाम्पि | अनन्त्ययोरिति किम् ? प्रशान् करोति । स्यादिधुटि पदान्तवत् पुम्भ्याम्, पुंभ्याम् । प्रशान्भ्याम् । सुकन्भ्याम् । धुटीति किम् ? गम्यते । हन्यते ।। ३२९।
[दु० टी०]
मनो० । नात्र मनाभ्यां तदन्तविधिर्विशिष्यमाणस्य लिङ्गस्य धातोर्वा प्रकृतस्यासम्भवात् । न च वक्तव्यम् - नामप्रकरणत्वान्नाम प्रकृतमिति । “लिङ्गान्तनकारस्य" (२।३।५६) इत्यत्र लिङ्गग्रहणमुत्तरत्र सामान्यार्थमित्युक्तमेवेत्याह-पुंसः शान्तिरित्यादि | 'शमु दमु उपशमे' (३।४२), "स्त्रियां क्तिः " (४।५।७२), "पञ्चमोपधायाः" (४।११५५) इत्यादिना दीर्घः | स्यादिधुटि पदान्तवदिति । लथमेतत् सन्ध्यनुस्वारविधौ अन्तग्रहणेनैव दर्शितमिति । स्यादिधुटि तु स्वभावान्न विरतिरस्तीति न तत्र तदन्तता । अतो वर्णमात्रे धुटि विधिरयम् ।। ३२९ ।
[वि० प०]
मनो०।युआाविति । 'युजिर् योगे' (६।७) । युनक्तीति “सत्सूद्विष०"(४।३।७४) इत्यादिना क्विप् । “युजेरसमासे नुर्पुटि" (२।२।२८) इति नुरागमः। स्वाम्पीति । शोभना आपो येषु तडागेषु इति विग्रहे "धुट्स्वराद् घुटि नुः" (२।२।११) इति नुरागमो नपुंसकलक्षणः,"अपश्च"(२।२।१९) इति दीर्घत्वम् ।अनन्त्ययोरित्यादि । प्रशाम्यतीति क्विप् । “पञ्चमोपधाया धुटि चागुणे" (४।१।५५) इति दीर्घत्वम् । “मो नो धातोः" (४।६।७३) इति मकारस्य सस्वरो नकारः, “अस्य च लोपः" (३।६।४९) । यद्येवम् अकारलोपस्य पूर्वविधिं प्रति स्थानिवद्भावेन धुटो व्यवहितत्वाद् अनुस्वारो न भवतीति ।तदयुक्तम् । “न पदान्तद्विर्वचनवर्गान्तानुस्वारप्रथम०"(का० परि० १०) इत्यादिनाऽनुस्वारविधि प्रति स्थानिवद्भावप्रतिषेधात् प्राप्नोतीत्यनन्तरयोरित्युच्यते । तत्पुनरेकपदप्रस्तावाद् वेदितव्यम् । स्यादिधुटीत्यादि । पदान्ते .यत् कार्यं तत् स्यादिधुटि भवति विरतेरभिधानाद् इत्यर्थः । तेन "मोऽनुस्वारं व्याने" (१।४।१५) इत्यनेनैवानुस्वारः । तथा च तत्रान्तग्रहणेनैव दर्शितम् । ततो “ वर्गे तद्वर्गपञ्चमं वा" (१।४।१६) इत्यतो विकल्प एव प्रवर्तते । ततः 'प्रशान्भ्याम्, सुकन्भ्याम्' इत्यत्र पदान्तवद्भावादनन्त्यो विधीयमानोऽनुस्वारो न भवति । स्यादिधुटीति वचनं त्यादिधुटि विरतेरभिधानं नास्तीत्याविर्भावार्थम् ।। ३२९ ।