________________
२१३
नामचतुष्टयाध्याये चतुर्थः कारकपादः [क० च०]
मनो० । ननु "मोऽनुस्वारं व्यअने" (१।४।१५) इत्यत्रान्तग्रहणस्य विरत्यर्थतया पुम्भ्याम् इत्यादि तेनैवानुस्वारविकल्पेन तद्वर्गान्तो भवतु । सुकन्भ्याम् इत्यत्र कथमस्य न विषयः ? सत्यम् । मकारग्रहणस्यात्राविरत्यर्थत्वे सिद्ध तत्साहचर्यान्नकारस्यापि अविरतावेवानुस्वारविधिरिति । एवं च वृत्तौ अनन्त्ययोरित्यस्याविरतिभूतयोरित्यर्थः । यत्तु एकपदप्रस्तावादनन्त्ययोरित्युक्तमिति पत्रिकायां तत् प्रशाम्करोतीत्यत्र समाधानान्तरसूचनायेति केचित् । वस्तुतस्तु एकस्मिन् मनोरिति पदे मकारं प्रति अविरतिप्रस्तावादित्यर्थः । तेन साहचर्यमेव सूचितम् । स्यादिधुटि पदान्तवदिति वृत्तावुक्तमिति केचित् । धुटीति किम् ? गम्यते इति ।
ननु धुड्ग्रहणेन गम्यते कथं व्यावृत्यते, यावता “मोऽनुस्वारं व्याने" (१।४।१५) इत्यत्राधिकृतान्तग्रहणेनैव तस्य व्यावृत्तिः सिद्धति ? सत्यम् । तत्रान्तग्रहणाधिकाराभावे पदान्ताधिकाराद् व्यञ्जन एव पदान्ते मस्यानुस्वार इति नियमे सति "मनोरनुस्वारो धुटि" इति धुड्ग्रहणं विना व्यरमत इत्यादावपदान्तेऽनुस्वारः स्यात् । पुम्भ्यामित्यत्र चानेनानुस्वारे कृते "वर्गे वर्गान्तः" (२।४।४५) इत्यनेन नित्यं वर्गान्तः स्यात् ।अस्मन्मते स्यादिधुटि पदसंज्ञाविरहात् पदत्वं न स्यात् । अतोऽन्ताधिकारो विरतिमात्रे "मोऽनुस्वारं व्यअने" (१।५।१५) इत्यस्य विषयं परिकल्प्य सफल इति । अतो युक्तं गम्यत इति प्रत्युदाहरणमिति केचित् । तन्न “वर्गे तद्वर्गः" (१।४।१६) इत्यादौ योऽन्ताधिकारसंबन्धस्तनैव पुम्भ्यामित्यस्यापि सिद्धेः, अत एवानुस्वारविधावन्ताधिकारस्य गम्यते इत्येव प्रयोजनमुक्तम्, न तु पुम्भ्यामिति । न चाव्यवहितत्वात् तत्रान्तसंबन्धः कथं स्यादिति वाच्यम्, प्रकृतत्वादन्ताधिकारबाधकाभावाच्च । किन्तु "अतोऽन्तोऽनुस्वारः" (३।३।३१) इत्यत्रान्तग्रहणबलाच्चान्ताधिकारसिद्धः । अन्यथा यदि पदान्त एव स्यान्न विरताविति । तदाऽन्तग्रहणमनुस्वारस्यापि स्थित्यर्थम् । तेन पक्षे "तद्वर्गपञ्चम०" (१।४।१६) इति वृत्तिवाक्यासङ्गतेः ।
ननु तत्रानुस्वारविधावन्ताधिकाराभावे पुम्भ्यामित्यत्र अनेनानुस्वारे कृते कथं विकल्पेन तद्वर्गपञ्चमः स्यात् । यावता उत्तरत्र सूत्रे सन्निहितत्वादेतत्सूत्रविहितानुस्वारपरिग्रहणे विकल्पं बाधित्वा पुम्भ्याम् इत्यत्रापि नित्यं पञ्चमः स्यादिति । न च सन्धिपञ्चमविधावन्तग्रहणसंबन्धस्य किं फलमिति वाच्यम्, जङ्गम्यते इत्यादौ