________________
नामचतुष्टयाध्याये चतुर्थः कारकपाद:: वस्तुतस्तु योगग्रहणं न प्रपञ्चार्थम्, पर्याप्तिरूपार्थस्तु पारिशेष्येणैव अलंशब्दो गृह्यते, किन्तु नम - आदिशब्दवत् पर्याप्तिवाचकस्यैवालंशब्दस्य कथन्न ग्रहणम्, पर्याप्तिपर्यायस्य सामर्थ्यादिशब्दस्य वा कथं ग्रहणमिति पूर्वपक्षनिरासार्थमेव योगग्रहणमिति मनसिकृत्याह - योगग्रहणबलाद् इति । एतत्पर्यायेणार्थं दर्शयति- समर्थ इत्यादि । एवं 'पर्याप्तो मल्लो मल्लाय । प्रभवति मल्लो मल्लाय । प्रभुर्मल्लो मल्लाय' इत्यादि कर्मणि बोध्यम् ।
___ ननु ‘ममायं प्रभुः' इति कथं षष्ठ्याः प्रयोगः, नित्यं चतुर्थीप्राप्तेः । पाणिनीयमतानुसारिणस्तु ‘स एषां ग्रामणीः' इति सूत्रनिर्देशाद् ग्रामण्यादियोगे षष्ठ्यपीत्याहुः । तदभावादस्मन्मते कथं षष्ठी स्यादिति ? सत्यम् । 'कर्तृकर्मणोः' इत्यत्र नित्यग्रहणात् प्रकरणेऽस्मिन्नित्यत्वमिति । तेन पक्षे षष्ठ्यपि पूर्वतश्चकारानुवर्तनाद् वा । तथा च भट्टिकाव्ये उभयथा प्रयोगः । 'यक्षेन्द्रः शक्तिमच्छासीन्नाप्रोथीदस्य कश्चन' इति । तथा 'तस्माद् वनैरपत्रेपे पुप्रोथास्मै न कश्चन' इति पुप्रोथेति । 'पोथै पर्याप्ती' (१।५७७) इत्यस्य रूपम् । _ 'गुरवे नमः' इत्यादौ नमःशब्दो नमस्कारे निपातितः 'देवायेदं पुष्पं नमः' इत्यादौ तु नमआदिशब्दो वस्तुवचनस्तेन 'नम स्वाहास्वधावषटां दानार्थतया संप्रदाने चतुर्थी सिध्यति किं सूत्रेणेति पूर्वपक्षो निरस्तः । 'स्वधा पितृभ्यः' इत्यादिष्वपि पितॄणामिदं वस्तु इत्यर्थावगतेः । अथवा 'श्रौषड्-वौषड्' इत्यादिव्यवच्छेदार्थं तेषामुपादानम्, तेन एषां संप्रदानत्वेऽपि चतुर्थीनिषेधः साध्यते । ततश्च ‘अग्नेः श्रौषड्, इन्द्रस्य वौषड्' इत्यादौ कारकत्वविवक्षायामपि षष्ट्येव ! ।
वस्तुतस्तु तादर्थ्यविवक्षायां चतुर्थीसिद्धौ वचनमिदं प्रपञ्चार्थम् । ननु 'नारायणं नमस्कृत्य' इत्यादौ कथं द्वितीया ? सत्यम् । नमःकृञ्योगे द्वितीया विभाषयेति कुलचन्द्रः। वस्तुतस्तु यदा नमःशब्दात् परः कृञ् भवति तदा साक्षाप्रभृतीनि चेति नमःशब्दस्य पाणिनिसूत्रेण पक्षे गतिसंज्ञा विधीयते । गतिश्च द्योतक इत्यर्थः । ततश्च गतिसंज्ञापक्षे नमःशब्दः कृञ्योगे प्रादिवद् द्योतको भवति, तत्र करोतेः क्रियासामान्यवाचित्वात् तस्य नतिरूपो योऽर्थस्तं द्योतयति । तत्र 'नारायणं नमस्कृत्य' इति क्रियाव्याप्यत्वाद् द्वितीयैव कारकविभक्तेर्बलीयस्त्वान्निरर्थकत्वेन नारायणमित्यनेन योगाभावाच्च । अर्थद्वारा हि शब्दयोग इति । तथा चोक्तम् -