________________
१५८
कातन्वयाकरणम् २. न त्वा बुषं मन्ये, न त्वा बुषाय मन्ये। पूर्ववत् प्रकृत सूत्र से 'बुष' शब्द में द्वितीया-चतुर्थी विभक्तियों का विधान ||३१०। ३११. नमःस्वस्तिस्वाहास्वधाऽलंवषड्योगे चतुर्थी [२।४।२६]
[सूत्रार्थ]
नमः, स्वस्ति, स्वाहा, स्वधा, अलम् तथा वषट् पद के योग में लिङ्ग= प्रातिपदिक से चतुर्थी विभक्ति होती है ।।३११।
[दु० वृ०]
नम आदिभिर्योगे लिङ्गाच्चतुर्थी भवति | नमो देवेभ्यः | स्वस्ति प्रजाभ्यः । स्वाहा अग्नये । स्वधा पितृभ्यः। अलं मल्लो मल्लाय | समर्थो मल्लो मल्लाय । बषड् इन्द्राय ।।३११।
[दु० टी०]
नमः। अलं भूषण-पर्याप्ति-वारणेषु । इह पर्याप्त्यर्थ एव योगग्रहणात् । पर्याप्तः शक्तः समर्थः प्रभुरिति पर्यायः । स्वस्ति गोभ्यो भूयाद् इत्याशीविवक्षायां नित्यं चतुर्थी स्यादेव । षष्ठ्यां प्राप्तायां वचनम् ।।३११।
[वि० प०]
नमः । यद्यपि अलंशब्दो भूषणपर्याप्तिवारणेषु वर्तते तथापि पर्याप्त्यर्थ एव गृहीतव्यो योगग्रहणबलात् । अन्यथा सत्यर्थतृतीयानिर्देशे सिध्यतीति । पर्याप्तिश्च सामर्थ्यमिति तत्पर्यायेणापि दर्शयति- समर्थो मल्लो मल्लायेति ।।३११।
[क० च०]
नमः । इहेति । इह सूत्रे पर्याप्त्यर्थ एव गृहीतव्य इत्यर्थः । योगग्रहणबलादिति । इह पारिशेष्यात् प्राप्तस्य पर्याप्त्यर्थस्य योगग्रहणेनैव केवलं प्रकाश्यते । तथाहि 'कन्यामलंकरिष्णुः' इत्यत्र भूषणार्थे 'उपपदविभक्तेः कारकविभक्तिर्बलीयसी' (कात० प०- ५९) इति न्यायात् कन्याशब्दाद् द्वितीयैव । 'अलं रोदनेन' इत्यत्र वारणार्थे तत एव न्यायात् करणे तृतीयैव बाधिकेति । तथोपचाराच्चानयोभूषणवारणार्थयोरलंशब्दः कर्मकरणभावस्थल एव प्रयुज्यते, 'नियतप्रयोगा हि केचिदव्ययाः' इति न्यायादिति केचित्।