________________
कातन्त्रव्याकरणम्
ततस्तेषां विवेकार्थं नमस्कृत्य मुनित्रयम्।।
दर्शितं वाभटेनेदं बालानां बुद्धिवर्धनम् ॥ इति । यदा तु नमःशब्द एव नमस्कारवाची करोतेः क्रियायाः कर्मभावमापन्नस्तदा चतुर्थी । तथा च भट्टिः
नमश्चकार देवेभ्यः पर्णतल्पं मुमोच च।।
रावणाय नमस्कुर्याः स्यात् सीते स्वस्ति ते ध्रुवम् ॥ 'देवान् नमस्यति' इत्यत्र यिनन्तस्य नमस्यधातोः क्रियाव्याप्यत्वेन कारकविभक्तित्वात् सदा द्वितीयैव । यदा नमःशब्दस्य करोत्यर्थप्रणामद्योतकता, तदैव गतिसंज्ञायां सत्यां "नमःपुरसोर्गत्योः" (अ०८।३।४०) इति विसर्जनीयस्य सकारः । तेन 'रावणाय नमस्कुर्याः' इति भट्टिप्रयोगे द्योतकत्वाभावान्न सकारः । 'स्वयम्भुवे नमः कृत्य' इति विसर्गान्तः पाठोऽशुद्ध एव । तथाहि यदि नमस्कारवाची तदा गतिसंज्ञाया अभावात् सत्वं क्त्वो यप् च न स्यात् । यदि च द्योतकः स्यात् तदा सत्त्वादिसिद्धावपि चतुर्थी न स्यात् । यदि तु प्रयोगः प्रामाणिकः स्यात् तदा अत्र ‘नमस्कृत्य स्वयंभुवे' इत्यादौ तादर्थ्यविवक्षयैव चतुर्थी । अत्र नमःशब्दस्य कृत्वेति सविसर्गः क्तान्त एव पाठश्चतुर्थ्यप्यनेनैव ।
ननु किमर्थमिदं तादर्थ्य चतुर्थैव सिद्धं 'श्रौषड्, वौषड्' इत्यादियोगे चतुर्थीनिषेधार्थं वचनमिति । तन्न, वौषट्शब्दादियोगे चतुर्थीदर्शनात्, 'कवचाय हुँ, अस्त्राय फट्' इत्यादि । टीकाकारेण प्रपञ्चार्थमिति यदुक्तं तदेव भद्रमिति । नमःशब्दयोगे क्वचिच्चतुर्थ्यर्थं वचनमिति वैयः। तर्काचार्यस्यापि मतमेतत् ।। ३११।
[समीक्षा]
'नमः, स्वस्ति, स्वाहा, स्वधा, अलम्, वषट्' शब्दों के योग में लिङ्ग = प्रातिपदिक से चतुर्थी विभक्ति का विधान दोनों ही व्याकरणों में किया गया है । पाणिनि का सूत्र है - "नमःस्वस्तिस्वाहास्वधालंवषड्योगाच्च" (अ०२।३।१६) उभयत्र प्रक्रिया तथा सूत्र-शब्दावली में प्रायः साम्य ही है । इन परिगणित शब्दों में केवल ‘अलम्' शब्द का निर्देश अर्थपरक है । इससे पर्याप्त्यर्थक ही ‘अलम्' शब्द के योग में चतुर्थी होती है, 'भूषण-वारण' अर्थों में नहीं।