________________
नामचतुष्टयाध्याये षष्ठस्तद्धितपादः
४८५
षष्ठ्यन्तादेव युज्यते ? सत्यम् । इतिशब्दस्य बहुलार्थत्वादस्तीत्यर्थे प्रथमान्तादेव स्यादित्यर्थः । ननु किमर्थमस्तीति विशेषणम्, न हि प्रथमान्तः सत्तां व्यभिचरतीति । उच्यते - वर्तमानकालार्थं तेन भूताभिर्भविष्यन्तीभिर्वा गोभिर्न गोमानिति । तर्हि कथं गोमान् आसीत्, गोमान् भविता चेत्, तदापि वर्तमानाभिरेव गोभिर्गोमान् वर्तमानस्य गोसत्तासम्बन्धस्य मन्तुनाऽभिधीयमानस्यातिक्रान्ततैवासीदित्यनेनोच्यते, न तु गवां सत्ता गोमान् इत्येकवचनान्तत्वात् । अन्यथा गावः आसिन्नित्येव स्यात् । नापि पुंसत्ता । तर्हि पुरुषस्य वर्तमानत्वाद् अस्तीत्येव स्याद् अतो व्याकरणस्य पदसंस्कारत्वाद् मांसं न खादतीति वर्तमानसंज्ञेतिवत् समाधिरिति टीकाहृदयम् ।
अथ 'गोमान् देवदत्तः' इत्यादौ कथं संबन्धे विधीयमानेन मन्त्वादिना सम्बन्धिसामानाधिकरण्यम्, ‘गोमान् देवदत्तस्य' इत्येव युज्यते । नैवम्, संबन्धं विधीयमानेनोक्तार्थत्वात् प्रथमैव स्यात्, अव्यतिरिक्तलिङ्गार्थत्वात् । सत्तामात्रे मन्त्वादयश्चेत्, व्रीहिरस्य यवोऽस्येत्यत्रापि प्राप्नुवन्ति । तस्माद् एतद्व्यावृत्त्यर्थं भूमादयोऽर्धा वाच्या नेत्याह - इतिशब्द इत्यादि । भूमेति । बहोर्भावे इमन् । बहोर्भूरिमन् आदिलोपश्च सद्यआद्यत्वात् । भूम्नि बहुत्वे इत्यर्थः । नित्ययोग उत्पत्तिमारभ्य विनाशं यावत् संबन्धः । संसङ्गस्तु कदाचित् संबन्ध इति भेदः । कश्मलेत्यादि । पिशाचशब्दः कश्मलसोन्मत्तत्वे कश्मलसोन्मत्ताधिकरणेऽभिधीयते पूर्वैरित्यर्थः । तृप्रीत्यादि । तृप्रं प्रीणनम्, कृच्छ्रं दुःखम्, प्रतीपो निकटः, सोढुं सहनम्, अस्रं रुधिरम् । अनमेवानं स्वार्थेऽण्, तदस्यास्तीति वाक्यम् | प्रतीपी चेति चकारात् 'पञ्चप्रदी, पाथेयी, प्रणयी, पक्षी, चक्री, पिनाकी, मुसली' इत्यन्येऽपि दुःखादयः शिष्टप्रयोगादिति कुलचन्द्रः।
सवदिरिति । सर्व आदिः पूर्वोपनिपाती यस्येति विग्रहः । सर्वबीजीत्यादि । सर्वं च तद् बीजं चेति, सर्वे च ते केशाश्चेति तद् विद्यते यस्येत्यर्थः । स्याद् धर्मेति । धर्मश्च शीलं च वर्णश्च ते अन्ता यस्य तस्मादित्यर्थः । कराच्चेति चकारेण कुन्ती कबरी च जातौ । अन्यत्र कुन्तवान् । स्युर्ब्रह्मेत्यादि । ब्रह्मचारीत्यस्यार्थद्वयम् एकं ब्रह्मचरणविशिष्टत्वम्, अपरं ब्रह्मचरणयोग्यत्वम् । ननु ब्रह्मचरणाद्धेतोरित्यत्र कथं पञ्चमी, “षष्ठी हेतुप्रयोगे" (२/४/३७) इत्यस्य विषयत्वात् । तेन शतस्य हेतोर्वर्धते इत्यत्र हेतावृणे प्राप्तापि पञ्चमी बाध्यते चेत्, उच्यते "कर्तृकर्मणोः कृति नित्यम्” ( २/४/४१ ) इत्यत्र नित्यग्रहणं