________________
४८४
कातन्वव्याकरणम्
शब्दार्थमाह - कश्मलसोन्मत्तत्वे इति । कश्मलं च सोन्मत्तत्वं चेति समाहारद्वन्द्वः । अथवा मुख्या एव पिशाचा उच्यन्ते । पिशाचकी वैश्रवणः, तस्य यक्षभूतपिशाचाधिपतित्वात् । वयसीत्यादि । पञ्चानां दिनानां मासानां वा पूरणः पञ्चमः, सोऽस्या अस्तीति पञ्चमी । अन्यत्र पञ्चभवान् गानरागः ।सुखादिभ्य इत्यादि । सोढमाग्नमस्यास्तीति विग्रहः ।ब्रह्मवर्णीति । ब्रह्मणो वर्णः, ब्राह्मणजातिरित्यर्थः । जातावित्यादि । जातेरन्यत्र वन्तुरेव | हस्तवान्
इत्यादि।
वर्णादिन् ब्रह्मचारिणीत्यादि । विद्याग्रहणार्थमुपनीतेन सेवितव्यो नियमविशेषो ब्रह्म, तच्चरति सेवत इति । “आवश्यकाधमर्णयोर्णिन्" (४/५/१११) । वर्गशब्दो ब्रह्मचर्यपर्याय इति दर्शयन्नाह - स्युर्ब्रह्मचरणादित्यादि । एतेन ब्रह्मचर्यावस्थामधिकृत्य वर्णिशब्दार्थो दर्शितः । अन्ये तुवर्णिशब्दो ब्राह्मणादिजाातेवचनः इत्याहुः । तत्र ब्रह्मचारिणीत्यनेन शूद्रस्य व्यवच्छेदः क्रियते , ब्रह्मचरणे तस्यानधिकारात् । अतोऽन्तरेणापि ब्रह्मचर्यं त्रयो ब्राह्मणा वर्णिन इति । मतान्तरमाह - ब्रह्मचर्यं विनापीति । कथं पुनर्ब्रह्म चारिग्रहणे सत्येवमिति चेद् आह - सम्भवादिति । ब्रह्मचरणयोग्यत्वादित्यर्थः । तदुक्तम् - त्रैवर्णिको वर्णीत्युच्यते । ब्रह्मचारिणीति किम् ? वर्णवान् रूपवान् इति । रूढदेशक इति स्वार्थे कप्रत्ययः । देशादन्यत्र न भवति । पुष्करवान् हस्ती | मनन्तेत्यादि । मनन्तादप्राप्ते मान्तादनेकस्वरादत इति वचनात् प्राप्तो नियम्यते, संज्ञायामिनेवेति । तेनासंज्ञायां वन्तुरेव - दामवान्, सोमवान् इति ।प्रागुक्तनियमार्थत इति । द्वन्द्वनिन्दितरोगेभ्यः प्राणिस्थेभ्य इनेव हि' इति, अतः पूर्वमित्यर्थः। सज्ञेत्यादि । सञी, सञ्ज्ञावान् इत्युदाहरणम् । वा कर्मेत्यादि । एभ्यो धर्मपर्यन्तेभ्योऽप्राप्त इन् विकल्प्यते । चूलादिभ्य इन्ननेकस्वरादतः इति विकल्पः सिद्ध एव । केवलं को नेष्यते इति प्रतिपाद्यम् । 'प्रयामउपयाम' इति सत्यपि द्वन्द्वसमासे "उवणे ओ" (१/२/३) इति न कृतं स्यात्, श्लोकत्वात् । एवमन्येऽपीति । नौर्विद्यतेऽस्येति इन् कश्चान्तः नाविकः । 'नौमान्' इत्यादयोऽपीतिशब्दस्य विवक्षार्थत्वादनुसतव्या इति भावः ।।३८१।
[क० च०]
तदस्या० । तदिति पञ्चम्यर्धे लुप्तप्रथमान्तमनुकृतम् इत्यत आह - तदिति प्रधमान्तादिति । अथास्तीत्यर्धे विधीयमानः प्रत्ययः कथं प्रधमान्तात् स्याद् अस्येत्युपादानात्