________________
नामचनुष्टयामागे षष्ठस्तरितपालः
४८३ अस्यास्तीति पूर्वी, पूर्वशब्दस्य विशेषणत्वात् । पूर्वं भुक्तं पीतं कृतं चेत्यादिक्रियाविशेषो गम्यते वर्तमानकालस्तत्संस्कारावगमाद् विवक्षित इति । पूर्वं भुक्तं पीतं कृतं वाऽनेनेति परिणतिः, तथा विद्यमानपूर्वादपि । कृतं च तत् पूर्वं चेति तदस्यास्तीति कृतपूर्वी कटम् । भूक्तपूर्वी ओदनम् । कृतं पूर्वमनेनेति परिणतिः। रूटिशब्दा हि तद्धिता एवमर्थे वर्तन्ते इति वा । यदा कर्मणि क्तस्तदापि न दोषः। तेन हि सामान्यं कर्मोक्तं न विशेषमोदनादिकमिति भावः। एवमिष्टादिभ्योऽपि सिद्धम् । इष्टी यज्ञे, पूर्ती श्राद्धे । इष्टमनेनेति परिणतिः ।।३८१।
[वि० ५०]
तदस्यास्तीति । मन्तुश्च वन्तुश्च विंश्च इंश्चेति लुप्तप्रथमाबहुवचनम् पदं समाहारत्वादेकवचनं वा । मन्तुवन्त्वोरुकारलोपः सूत्रत्वात् । विनो नकारस्य लोपः "व्यजनान्तस्य यत्सुभोः"(२/५/४) इत्यतिदेशबलात् ।इनो नकारस्य “लिङ्गान्तनकारस्य" (२/३/५६) इति लोपो न भवति, इन्निति स्वरूपनिर्देशात् । इतिशब्द इत्यादि भूमेति बहुत्वमुच्यते । गावो विद्यन्तेऽस्येति गोमान् । निन्दायां ककुदावर्ती । ककुदावर्तोऽनिष्टफलहेतुत्वान्निन्दितः । प्रशंसायां रूपवान् । नित्ययोगे क्षीरिणो वृक्षाः। अतिशायने उदरवती कन्या । संसझे दण्डी । अर्थनिवम उक्तः । इदानीं प्रकृतिनियममाहतथेत्यादि । भोपधश्च मान्तश्च समाहारद्वन्द्वः। तत्र मोपधात् लक्ष्मीवान् । मान्तात् किंवान् ।धुडन्तात् - विद्युत्वान् ।अशिडन्तादिति किम् ? आयुष्मान् ।मन्तुरेव शेषत्वात् ।
___ अवर्णोपधतः-पयस्वान्, भास्वान् ।अवर्णतः-वृक्षवान्, मालावान् ।मायेत्यादि । माया च शीर्षं चेति समाहारः । स्वरूपादिति नार्थादित्यर्थः । यथा मायी, शीर्षी | चकार उक्तसमुच्चयमात्रे । व्रीहीति स्वरूपात् शालीत्यर्थाद् अनेकस्वरादतः इति छत्री । एकस्वरादकारान्तान्न भवति । स्वं विद्यतेऽस्येति स्ववान्, वन्तुरेवावर्णत इति वचनात् । मायास्मेधेत्यादि । माया च अस् च सक् चेति समाहारः। मायावी, असन्तात् पयस्वी । मेधावी, सम्वी । विभाषयेति पक्षान्तरे यथाप्राप्तम् । द्वन्द्व इत्यादि । इनेव हीति । मा भूद् अनुष्टुब्भङ्ग इति नकारस्य द्विर्न भवति ।कुष्ठीत्यन्तपठितस्य रोगस्य मध्ये उदाहरणं श्लोकत्वात् । स्तनकेशवतीति प्राणिस्थद्वन्द्वत्वादिन् प्राप्तः स्वाङ्गत्वान्न भवति । क इत्यादि । एषां वातातीसारपिशाचानामिनन्तानाम् इत्यर्थः । वातातीसारौ रोगौ । पिशाच