________________
४८२
कातन्त्रव्याकरणम् अन्तशब्दः प्रत्येकमणि संबायते । ब्राह्मणस्य वो जातिः । जासावित्यादि । जाताविति किम् ? हस्तवान्, दन्तवान् । वर्णादिति विद्याग्रहणार्थमुपनीतेन सेवितव्यो नियमविशेषो ब्रह्म तच्चरति सेवत इत्यावश्यके णिनिः । वर्णशब्दोऽयमिह जातिवचनः । ब्रह्मचर्यवचन इत्यन्ये । ब्राह्मणक्षत्रियवैश्यैर्वर्णास्त्रय इत्यर्थः । ब्रह्मचारिणीति किम् ? वर्णवान् रूपवान् । पुष्करेत्यादि । पयश्च शालूकं च करीषश्चेति द्वन्द्वः । मनन्तेत्यादि । संज्ञायामिति किम् ? दामवान्, सोमवान् । सज्ञेत्यादि । सञी, सञ्ज्ञावान् । 'प्रयामउपयाम' इति सत्यपि समासे उवर्णे ओ न भवति श्लोकत्वात् । एवमन्येऽपीति |
नौयवकुमारीकरणेभ्य इन्नपि कश्चान्तः । नाविकः, नौमान् । यवादिभ्यो मन्तुः । यव - ऊर्मि - भूमि - कृमि - कुञ्चा - वशा - दाक्षा - वृजि - धृजिभ्यो मन्तुरेव । गुणवचनेभ्यो मन्त्वादीनां लुग् वक्तव्यः । गुणमुक्तवन्तो गुःवचनाः, न तु गुण उच्यते यैः, तदा वचनग्रहणमकारणम् इति । ये गुणमभिधाय तद्वति द्रव्ये वर्तन्ते भेदोपचारात् तेभ्य इत्यर्थः, तथा सिद्धम् - 'शुक्लः पटः' इति । यद् वा भेदविवक्षा तदा मन्त्वादिश्रवणं स्यात् ‘शुक्लवान् पटः' इति । गुणवचनग्रहणस्योपलक्षणत्वाच्च भेदे लुग्वचने सति अभिधेयनद् लिङ्गवचनानि भवन्ति । अभेदोपचारवृत्तौ तु कदाचिद् गुणशब्दा उपात्तस्वलिङ्गास्तद्वति वर्तन्ते । यथा 'कुन्तान् स्त्रीः प्रवेशय, यष्टीर्मनुष्यान्' इति ।
नैवम्, सति सम्भवे लुगारभ्यते । नहि गुणवचनेभ्यो मन्त्वादयोऽनभिधानात् लिङ्गमशेष्य लोकाश्यत्वात् तस्येति । यथा जातिशब्देश्यो गौरश्वः इति भावः । तेषां तु गुणशब्दानां तुल्याभिधानसामान्यमस्ति, अतो भवत्येव ! रसवान् इक्षुः, गन्धदती भूः, शब्दवान् आकाशः, स्पर्शवान् वायुः, रूपवान् दारुकः । रसादिभ्यो वन्तुरेवेति । कथं रसी, रसिकः राजा, रूपिण्योऽप्सरसः, स्पर्शिको वायुरितीन् । रसादिनात्र इन्द्रयग्राह्य इति कथं स्पर्शिको वायुर्गन्धिक इति । तस्मादभिधानमेवाश्रय इति । वटकाः प्रायेणाश्यन्तेऽस्यां वटकिनी पौर्णमासी । गम्यमानार्थत्वादनेनैव सिद्धम् । तदन्ताच्च कप्रत्ययो नैव दृश्यते । श्रद्धा यत्र कर्मण्यस्ति तत् श्राद्धम् । श्राद्धभोजनमपि श्राद्धम्, उपचारात् । श्राद्धमस्यास्तीति श्राद्धी, श्राद्धिकः । अनिवृत्तेऽपि भोजने तृप्तिसंबन्धाद् भुक्तमनेनेति लोकेऽभिधानम् । तेनान्येधुर्न भवति किं श्राद्धमनेनाद्य भुक्तमिति वचनेन । तथा पूर्वम्