________________
४८१
नामचतुष्टयाध्याये षष्ठस्तद्धितपादः
४८१ शालायाः पुरुषान् पश्येति । तथात्रापीति न सप्तम्याद्रियते ।
ननु किमस्तीति विशेषणेन, नहि प्रथमान्तं सत्तां व्यभिचरति ? सत्यम् । वर्तमानकालार्थम् । तेन भूताभिर्भविष्यन्तीभिर्वा गोभिर्न गोमान् । ननु कथं गोमान् आसीत्, गोमान् भविता इति ? सत्यम् । तदापि वर्तमानाभिरेव गोभिर्गोमान् वर्तमानस्य गोसत्तासम्बन्धस्य मन्तुनाभिधीयमानस्यातिक्रान्तता आसीदित्यनेनोच्यते, न गवां सत्ता एकवचनान्तत्वात् । नापि पुंसस्तस्य विद्यमानत्वात् । संसर्गसंबन्धभेदेनासीदित्युच्यते कथं तविरुद्धार्थेनासीदित्यनेन मन्त्वन्तस्य समानाधिकरणता ? इति न देश्यम्, शब्दशक्तिस्वभावात् । अतिक्रान्तगोसत्तासंबन्धाभिधायी मन्त्वन्त आसीदित्यनेन संबध्यमानः प्रतीयते ।
ननु सन्मात्रे मन्त्वादयश्चेद् व्रीहिरस्य यवोऽस्य इत्यत्रापि प्राप्नुवन्ति इत्याह - इतिशब्दोऽत्र विवक्षार्थ इति । स पुनरभिधाननिबन्धन एव । भूमेत्यादि । बहोर्भावे इमन् बहोर्भूश्च निपात्यते, सद्यआद्यत्वात् । भूम्नि बहुत्वे - गोमान् । निन्दायाम-ककुदावर्ती । ककुदावर्तोऽनिष्टफलविवर्तकत्वान्निन्दितः । प्रशंसायाम्-रूपवान् । नित्ययोगे -क्षीरिणो वृक्षाः । अतिशायने - उदरवती कन्या । संसङ्गे- दण्डी । तथेत्यादि अनुदाहृता उदाह्रियन्ते । अशिडन्तत इति किम्? गोदुहोऽस्य सन्ति लोधुङ्मान् । मायेत्यादि । मायाशीर्षादिति समाहारद्वन्द्वः । स्वरूपादिति । यथा मायी, शीर्षी । चकार उक्तसमुच्चयमात्रे । अनेकस्वरादकारान्तादिति किम् । स्वं विद्यतेऽस्येति स्ववान् । मायास्मेधेति मायावी | असन्तश्च पयस्वी । अन्यत्र भास्वान् । अवर्णोपधत्वाद् वन्तुरेव । सज् - नग्वी । द्वन्द्वेत्यादि । कटकश्च वलयश्च तौ विद्येते अस्येति विग्रहः । निन्दितरोगयोर्व्यस्तोदाहरणं श्लोकत्वात् । क इत्यादि । एषां वातादीनामित्यर्थः । वातातिसारौ रोगाख्यौ । पिशाचशब्दस्य इन्नेव । कः स्वार्थ इति । कश्मलं च सोन्मत्तत्वं चेति समाहारद्वन्द्वः । मुख्या एव पिशाचा अभिधीयन्ते । पिशाचकी वैश्रवणः, यक्षभूतपिशाचाधिपतित्वात् ।
वयसीत्यादि । पञ्चानां पूरणः पञ्चमः सोऽस्यास्तीति । वयसीति किम् ? पञ्चमवान् गानरागः । सुखादिभ्य इति । सोढम् अनम् आनं विद्यतेऽस्येति विग्रहः । सर्वं च तद् वीजं च, सर्वे च ते केशाश्च तेऽस्य सन्ति सर्वकशी नटः । अर्थनमर्थः सोऽस्यास्तीत्यर्थः । अर्थिक इति नित्यं क्रियापदार्थकादन्यत्र वन्तुरेवाभिधीयते । स्याद्धर्मेत्यादि ।