________________
४८०
कातन्वव्याकरणम्
जातौ तु हस्तदन्ताभ्यां कराच्चैव इनेव हि ॥१२॥ हस्ती दन्ती करी नेयो वर्णादिन् ब्रह्मचारिणि । स्युर्ब्रह्मचरणाद्धेतोर्वर्णिनो ब्राह्मणास्त्रयः॥१३॥ ब्रह्मचर्य विनापि स्युः सम्भवाद् ब्राह्मणा इति । पुष्करोत्पलपोभ्यो नडबिसतमालतः॥१४॥ कपित्थकुमुदाभ्यां च मृणालात् कर्दमात् पयः। शालूककरीषेभ्यश्च हिरण्याद् रूढदेशके ॥१५॥ विवक्षायामिनेवेति यथा पुष्करिणीति च। मनन्तमान्तशब्देभ्यः संज्ञायामिन्निहेष्यते ॥१६॥ अप्राप्तिनियमार्थ च दामिनी सोमिनी यथा । इन्विषये इको वाच्यः प्रागुक्तनियमार्थतः॥१७॥ स्वार्थे कः स्यान्न वाच्योऽयं दण्ड्येव दण्डिको यथा। संज्ञा मालेष्टका वीणा मेखला वडवा शिखा ॥१८॥ बलाकाभ्यः पताकाया इन् विभाषा विधीयते। वा कर्मचर्मवर्मभ्यश्चूलोत्साहबलोद्दाम ॥१९॥ मूलदलकुलायामारोहप्रयाम-उपयामव्यायामावरोहाणाम् । इनन्तानां सदैतेषां स्वार्थे को नेष्यते बुधैः॥२०॥
एवमन्येऽपि ।।३८१। [दु० टी०]
तदस्या० । तदिति प्रथमान्तनिर्देशोऽस्तीति प्रथमान्तोपाधिः । मन्तुश्च वन्तुश्च विंश्च इंश्चेति लुप्तप्रथमाबहुवचनं समाहारो वा द्वन्द्वः । मन्तुवन्त्वोरुकारलोपो विचित्रसूत्रनिर्देशप्रतिपत्तये । विनो नलोपः समासेऽस्त्येव वाक्येनाभिधाने प्राप्ते मन्त्वादयोऽभिधीयन्ते । गावो विद्यन्तेऽस्मिन्निति |सप्तम्यर्थे कथमिह मन्त्वादयः ? सत्यम् ।षष्ठीसप्तम्योर) प्रत्यभेदात् । यद् यस्य भवति तस्मिन्नपि तद् भवति । यच्च यस्मिंस्तस्यापि तत् । यथा वृक्षे शाखा, वृक्षस्य शाखा, घटे रूपम्, घटस्य रूपम् । ननु भेदोऽपि दृश्यते । यथा - गङ्गायां गावो न च तास्तस्याः । देशान्तरगतोऽपि पुत्रो देवदत्तस्य भवति न चासौ तत्र | नैवम्, तदाश्रयत्वात् तद्व्यपदेशोऽपि दृश्यते । यथा रथ्यायाः पुरुषानाह्वय,