________________
५१८
कातन्त्रव्याकरणम् अधरा अधरस्याच्चात् । अधराद् वसति, अधराद् रमणीयम् । दक्षिणाद् वसति, दक्षिणाद् रमणीयम् । उत्तराद् वसति, उत्तराद् रमणीयम् । 'अधरादागतः, दक्षिणादागतः, उत्तरादागतः' इति पञ्चम्या सिद्धम् । अधरस्या दिश आगत इति स्याच्चेत्, नैवम् । अधरस्माद् दिग्विशेषादागत इति विवक्षया निपातनाद् वा लक्ष्यते इति । अदूरे एनो वा । अधरस्यामदूरवर्तिन्यां दिशि वसति, अधरेण वसति । एवम् अधरेण रमणीयम्, दक्षिणेन वसति, दक्षिणेन रमणीयम् । पक्षे - 'अधराद् वसति' इत्यादि । केचिद् दिक्शब्दमात्रादिच्छन्ति । तेषां पूर्वेण वसतीत्यादि । अदूरवर्तिभ्य इति किम् ? उत्तरतो हिमवान् ।।४०३।
[वि० प०]
सय० । ऐषम इति । अत्रापि संवत्सर इति संबध्यते । अस्मिन् संवत्सरे ऐषम इति । 'अयतनेऽपि' इति इप्रत्यय इत्यर्थः । एवमित्यादि । पूर्वादिशब्दाद् दिग्देशकालार्थात् सप्तमीपञ्चमीप्रथमाद् अस्तातिप्रत्ययः । पूर्वस्यां दिशि वसति, पुरस्ताद् वसति । पूर्वस्या दिश आगतः, पुरस्तादागतः । पूर्वा दिग् रमणीया, पुरस्ताद् रमणीया । एवं पूर्वस्मिन् देशे काले वा वसतीत्यादि योज्यम् । निपातनं पूर्वशब्दस्य पुरभावः । एवमन्येऽपि वेदितव्याः, सद्यआद्यादेराकृतिगणत्वात् ।। ४०३ ।
[क० च०]
सय० । आदौ भवः आद्यः । सद्य आद्यो येषां ते सद्यआद्याः । निपात्यन्ते इति । निपातनात् प्रकृतिप्रत्ययादेशकालविशेषो न लभ्यते इति । अद्य इति “अद् व्यानेऽनक्" (२/३/३५) इत्यस्य बाधकस्तत्र "इदमी" (४/६/६६) । अतस्तस्मिन् प्राप्ते निपात्यते, पूवदिरेधुस् इति । पूर्वान्यान्यतरापराधरोत्तरेभ्य एद्युस् अहनि वाच्ये इत्यनेनेत्यर्थः । उभयाद् द्युस् चेति । चकार इह एद्युसमनुकर्षतीति टीका । पञ्याम् एवमन्येऽपि वेदितव्या इति । अन्च्यन्तादस्तातेलृक् । प्राच्यां दिशि वसति प्राग् वसति, प्रागागतः, प्राग् रमणीया । निपातनात् स्त्रीप्रत्ययस्यापि लुक् । ऊर्ध्वस्योपभावो रिरिष्टाती च प्रत्ययौ । उपरि, उपरिष्टात् । ऊर्ध्वायां दिशि वसति उपरि वसति, उपरिष्टाद् वसति । पूर्वापरयोरसिः पुरधौ च ।पुरस्ताद् वसति, पुरो वसति । पुरस्ताद् आगतः, पुर आगतः इत्यादयः ।।४०३।