________________
नामचतुष्टयाभ्याये षष्ठस्तद्धितपादः
५१७ संवत्सरे, अस्मिन् संवत्सरे इति विग्रहः । पूर्वान्यान्यतरेतरापराधरोत्तरेभ्य एघुस् अहनि वाच्य इति । उभयाद् धुश्चेति चकार एद्युसमनुकर्षति । एवमित्यादि । दिक्शब्दाद दिग्देशकालार्थात् सप्तमीपञ्चमीप्रथमान्तादस्तातिः । पूर्वस्यां दिशि वसति पुरस्ताद् वसति । पूर्वस्या दिश आगतः पुरस्तादागतः । पूर्वा दिग् रमणीया पुरस्ताद् रमणीया । पूर्वस्मिन् देशे वसति पुरस्ताद् वसति । पूर्वस्माद् देशादागतः पुरस्तादागतः, पुरस्ताद् रमणीयम् । दिशि प्रसिद्धायामिति किम् ? ऐन्द्रयां दिशि वसति । अन्च्यन्तादस्तातेलृक् । प्राच्यां दिशि वसति प्राग् वसति । प्रागागतः, प्राग् रमणीयम् । निपातनादेव स्त्रीप्रत्ययस्यापि लुक् ।
एवं प्राचि देशे काले वा वसतीति योज्यम् । एवम् उपरि, उपरिष्टात् । ऊर्ध्वस्योपभावो रिरिष्टाती च प्रत्ययौ । ऊर्ध्वायां दिशि वसति, उपरि वसति, उपर्यागतः, उपरि रमणीयम् । उपरिष्टाद् वसति, उपरिष्टादागतः, उपरिष्टाद् रमणीयम् । एवम् ऊर्श्वे देशे काले वा वसतीति योज्यम् । पूर्वाधरयोरसिश्च पुरधौ च । पुरस्ताद् वसति, पुरो वसति । पुरस्तादागतः, पुर आगतः । पुरस्ताद् रमणीयम्, पुरो रमणीयम् । अधस्ताद् वसति, अधो वसति । अधस्तादागतः, अध आगतः। अधस्ताद् रमणीयम्, अधो रमणीयम् । ___अवरस्यार्भावः असिप्रत्ययश्च | अरो वसति, अर आगतः, अरो रमणीयम् । अस्तातिप्रत्ययेऽरादेशपक्षे - अवरस्ताद् वसति, अरस्ताद् वसति । अवरस्तादागतः, अरस्ताद् आगतः। अवरस्ताद् रमणीयम्, अरस्ताद् रमणीयम् । अवरस्य पश्चभावः आतिप्रत्ययश्च । पश्चाद् वसति, पश्चाद् आगतः, पश्चाद् रमणीयम् । कथं दक्षिणपश्चात् ? दक्षिणा च पश्चाच्चेति विग्रहः | पश्चार्धमिति । अवरार्धमित्येतस्मिन्नर्थे निपात्यते । परावराभ्यां तस् वा । परतो वसति, परतो रमणीयम् । परस्ताद् वसति, परस्ताद् रमणीयम् । अवरतो वसति, अवरतो रमणीयम् । अवरस्ताद् वसति, अवरस्ताद् रमणीयम् । परत आगतः, अवरत आगतः इति “पञ्चम्यास्तस्" (२/६/२८) इत्यनेनैव सिद्धम् ।
इतः सप्तमीप्रथमाभ्यां विधिः । दक्षिणोत्तराभ्यामा च । दक्षिणा वसति, दक्षिणतो वसति, दक्षिणा रमणीयम्, दक्षिणतो रमणीयम् । उत्तरा वसति, उत्तरतो वसति, उत्तरा रमणीयम्, उत्तरतो रमणीयम् । आहि च दूरे । दक्षिणाहि वसति, दक्षिणा वसति । दक्षिणाहि रमणीयम्, दक्षिणा रमणीयम् । उत्तराहि वसति, उत्तरा वसति । उत्तराहि रमणीयम्, उत्तरा रमणीयम् । दूरे चोदधिमानित्यर्थः । दूर इति किम् ? दक्षिणतो वसति ।