________________
नामचतुष्टयाध्याये चतुर्षः कारकपादः
२९
न काकादिभिरानीतं पततीति । भीतिर्भयम् अर्थमात्रत्वात् चौरात् त्रस्यति शङ्कते वा । ‘अरण्ये बिभेति' इति अधिकरणस्य विक्षितत्वात् तत्स्थेभ्यो व्याघ्रादिभ्यो भयमित्यर्थः । यदा त्वरण्यमेव भयहेतुस्तदा 'अरण्याद् बिभेति' इति भवितव्यमेव । भयहेतुरित्यर्थाल्लभ्यते ।
उपाध्यायादध्याप्यते, उपाध्यायादधीयते । कर्तृत्वमसत्येवेति न विरुध्यते । आङ्पूर्वस्य दाञो ग्रहणार्थत्वात्, ग्रहणम् उपयोगः साध्यः । उपाध्यायादध्ययनं गृह्णातीत्यर्थः । वाशब्द इह वाक्यभेदार्थः । अन्यथा यस्मादपैति, भयमादत्ते, तस्यैवापादानसंज्ञा स्यात् । यत इत्यादि । अवधिराघाट:, सीमा, मर्यादिति पर्यायः । जुगुप्साविरामप्रमादार्थानां प्रयोगेऽप्यपाये विश्लेषलक्षणे साध्यत्वेन विषयभूते संश्लेषात् प्रच्यवमानस्याधर्मोऽवधिरेव । न हि कायप्राप्तावेवापायः, किं तर्हि चित्तप्राप्तावपि । तथा च दुःखहेतुरयमधर्म इति मन्यमानो बुद्ध्या अधर्मेण संश्लिष्यते, ततो निवर्तते । पराजयतेरसोढोऽर्थोऽवधिरेव । अध्ययनसकाशाद् यज्ञदत्तो देवदत्तं सोढुं न शक्नोति । अभिभवितुमसमर्थ इति यावत् ।
यदा त्वध्ययनं नामातिकष्टम्, को ह्येतदध्येतुं शक्त इति स्फुट एवापायः । यस्तु सोढस्तत्तु कर्मैव - शत्रून् पराजयते । अन्तर्धी येनादर्शनमिच्छति सोऽप्यवधिरेव | येनोपाध्यायेन दर्शनस्य कर्त्रा आत्मनः कर्मणोऽदर्शनमिच्छति प्रेषणाध्येषणभयात् ततः स्फुट एवापाय इति । यदा त्वदर्शनं नान्तर्धिनिमित्तमिच्छति किन्तूपघातनिवृत्तये तदा कर्मैव - चौरान्न दिदृक्षते । चौरो मां पश्यतीति मत्वा अदर्शनेच्छायां पुनः सत्यपि दर्शने ततोऽन्तर्धानमित्यपाय एव । जनिकर्तुः कारणमप्यवधिरेव । प्रादुर्भवनं च विशेषेणोपालम्भ इत्यपायः । पुत्रात् प्रामोदा जायते इत्यपि भवति । अत एव प्रादुर्भवनमिति बुद्ध्यारोपात् । यथा बीजादङ्कुरो जायते उपादानकारणमवधिः । तथा सहकारिकारणं पुत्रोऽपि विवक्षयेत्यर्थः । तथा भूकर्तुः प्रभवोऽर्थोऽवधिरेव । प्रभवत्यस्मात् प्रभव इति कृत्वा कथमिति - हिमवतो गङ्गा प्रभवति । ततः प्रथमत उपलभ्यते इत्यर्थः।
-
यत्र तु यबन्तशब्दो गम्यमानतया न प्रयुज्यते, तस्मिन् यब्लोपे सति व्याप्यत्वात् कर्मसंज्ञा प्राप्ता । अपादानसंज्ञा वक्तव्येति अयुक्तम् । तथाहि दर्शनमिन्द्रियं निर्गत्य विषयं परिच्छिनत्ति । यथा जलौकसां पूर्वदेशत्यागेनोत्तरदेशावष्टम्भस्तथेन्द्रियाणामपि न निरिन्द्रियमधिष्ठानम् । ततोऽपक्रमाच्च स्पष्टोऽवधिभाव इति । येषां तु 'क्षणिकानि