________________
कातन्त्रव्याकरणम् इन्द्रियाणि प्राप्यकारीणि च' इति दर्शनम्, तेषामप्येकस्मिन्निन्द्रियक्षणे विषयदेशं गच्छति। अन्य इन्द्रियक्षणोऽधिष्ठानदेशे प्रादुर्भवतीति ।अन्योऽन्यप्रादुर्भावान्न निरिन्द्रयाधिष्ठानदोषः । ततोऽपक्रमाच्चावधित्वमिति येषां पुनरप्राप्यकारीणि इन्द्रियाणि, तेषामपि प्रेक्षणक्रियायास्ततो भावात् प्रासादोऽवधितया विवक्षितः । एवमधिकरणस्यापीति । तथा कुशूलात् पचति, ब्राह्मणात् शंसति, प्रासादमारुह्य प्रेक्षते, आसने उपविश्य प्रेक्षते, कुशूलादादाय पचति, ब्राह्मणादादाय शंसतीति । को हि नाम लौकिकी विवक्षामतिवर्तते इति। पृच्छ्यमानाख्यायमानयोरपि अवधित्वमस्तीति । कुतो भवानागच्छतीति प्रयोक्तव्ये गतार्थत्वान्न प्रयुक्तम् । तथा पाटलिपुत्रादागच्छामीति गम्यते ।
संयुक्तस्य हि विश्लिष्टिक्रियारम्भो भवेद् यतः।
तदेवावधिभावेन अपादानमिति स्मृतम् ।। तस्माद् भयादाञोरुपादानमनपायार्थमिति भावः । तदा विवक्षा गरीयसीति । यतश्च संयोगो निवर्तते सोऽयमेकस्य संयोगिनः संयोगान्तराद् व्यपगमोऽपायस्तथापि प्रथमं चलति द्रव्यम्, तदनन्तरमितरश्चापायः सोऽयं भवति विभागः, ततश्च संयोगनिवृत्तिर्यथैव हि चलस्याचलतो विश्लेषः, एवमचलस्यापि चलतः, सोऽयम् उभयोः समानविश्लेषकारकभावः । एतेन पतनकर्मणि तदेव साक्षात् कारणम् । यत् पततीति । इतरत्तु परम्परया द्विहेतुको विश्लेषः । पातयतीति वैशेषिकाणां मुख्य एवापायः, तदा सर्वं वक्तव्यं स्यात् ।।२९३।
[वि० प०]
यतः । यस्मादपैतीति । आख्यातं क्रियाप्रधानमित्यपायः साध्यः । यस्मादपायो विश्लेषो भवतीत्यर्थः । तेन "ध्रुवमपायेऽपादानम्" (अ० १।४।२४) इति न्यायात् सिद्धम् । यस्माद् भयं भवतीति “भीत्रार्थानां भयहेतुः" (अ० १।४।२५) इति न वक्तव्यम् । भीतिर्भयं त्रास इत्यर्थः । अरण्ये बिभेतीति अधिकरणमेव विवक्षितं यस्मात् तत्स्थेभ्यो व्याघ्रादिभ्यो भयं न त्वरण्यादिति, किमेतन्निवृत्त्यर्थेन भयहेतुग्रहणेन । यदा तु अरण्यमेव भयहेतुत्वेन विवक्ष्यते तदा ‘अरण्याद् बिभेति' इति भवितव्यमेव । यस्माद् आदत्ते इत्यापूर्वो दाञ् ग्रहणे वर्तते । 'उपाध्यायादधीते' इति।