________________
नामचतुष्टया याये पचमः समासपादः
३७१ सत्यव्ययीभावः । भेदे तु इतरेतरयोगे बहुव्रीहिरनुयुज्यते । दशानां समीपम् उपदशं पाणिपादम् । उपगताः समीपगताः दश एषाम् उपदशाः पाणिपादाः, दर्शितेभ्योऽन्यत्रानियमः । एषामभिधानव्यवस्था भाष्येऽप्यादृतेति ||३५३।
[वि० प०]
द्वन्दै० । यद्यपीतरेतरयोगे समाहारे च द्वन्द्वः प्रतिपादितस्तथाप्येकत्वमिति वचनादिह समाहारद्वन्द्वप्रतिपादितस्तथाप्येकत्वमिति वचनादिह समाहारद्वन्द्व एव गृह्यते । समाहारो हि संहतिः, सा च द्वन्द्वस्याभिधेयेति तत्रैवैकत्वमस्ति नेतरेतरयोगे तस्यावयवप्रधानत्वात् । यद्येवमेकत्वमर्थस्तत् कथं नपुंसकलिङ्गमिति ? सत्यम्, अर्थे कार्यस्यासम्भवात् तद्वाचिनो द्वन्द्वस्य नपुंसकलिङ्गत्वमित्यदोषः, इदानीमुक्तानामुदाहरणानामर्थप्रदर्शनद्वारेण समाहारद्वन्द्वस्य इतरेतरयोगस्य च विषयं विवेक्तमार्याभिरभिधानव्यवस्थामाह - अनुवाद इत्यादि । अन्यतोऽवगतस्यार्थस्य पुनः शब्देन संकीर्तनमनुवादः । चरणशब्दः शाखानिमित्तकपुरुषे वर्तते । कठेन प्रोक्तोऽध्ययनविशेषः । शाखासंज्ञकः सोऽयमित्यभेदात् कठः। तथा कालापिना प्रोक्तः कालापः, कुथुमिना प्रोक्तः कौथुम इति । अत्र कठादिशब्दोऽध्ययनविशेषमान ?णो यदा तदध्ययनसम्बन्धाद् अध्येतृपुरुषे वर्तते, तदा कठादीनां चरणानां एव द्वन्द्व इत्यर्थः। कीदृशानामित्याह - स्थेणद्यतनीप्रयोगविषयाणामिति । स्थाश्च इणश्च स्थेणौ ताभ्याम् अद्यतनी तस्याः प्रयोगः स एव विषयो येषामिति विग्रहः । तद् दर्शितं प्रत्यष्ठाद् इत्यादिना ।
कठाश्च कालापाश्च कटकालापम् इति । कठकालापादीनां प्रतिष्ठोदयावन्यतः प्रतिपन्नौ यदा पुनःशब्देनानुद्येते तदैवमुदाहरणम् । यदा तु पूर्वमनवगतस्यैवार्थस्य शब्देनार्थप्रत्यायनं तदा नासावनुवादः । तदेतरेतरयोगो भवति । प्रत्यष्ठुः कठकालापाः उदगुः कठकौथुमाः इत्यप्रतीतं प्रत्याययति । अश्विमेधम् इति । एतौ यजुर्वेदविहितौ क्रतू । अनपुंसकलिङ्गानामिति किम् ? राजसूयवाजपेये । क्रतुशब्दः ससोमके यागे प्रसिद्धः इति । दर्शपौर्णमासावित्यत्र न भवति । निकटपाठानामिति । निकटे पाठो येषाम् अध्येतॄणां ते तथोक्ताः । पदकक्रमकमिति । पदमधीत्य क्रममधीते इत्यर्थे बहुलत्वात् क्रमादिभ्यः कप्रत्ययो दृश्यते । पदमधीत्य क्रममधीते इत्यर्थः । अधीयमानयोः पदक्रमयोः सन्निहितत्वात् तदध्येत्रोरपि पदकक्रमकशब्दवाच्ययोनिकटपाठत्वम् । अप्राणीत्यादि ।