________________
३७२
कातन्त्रव्याकरणम् विसदृशं लिङ्गमेषामिति विसदृशलिङ्गानि च तानि नदीदेशनगराणि चेति विग्रहे पश्चाद-प्राणिजातयश्च विसदृशलिङ्गनदीदेशनगराणि चेति द्वन्द्वः । आरा शस्त्रीत्यादि । यथा-क्रमं चत्वार्युदाहरणानि ।प्राणिजातेस्तु न भवति - ब्राह्मणक्षत्रियविट्शूद्राः ।अप्राणीति नजिवयुक्तन्यायेन प्राणिनो द्रव्यस्य वर्जनाद् द्रव्यजातेरेव भवतीति न गुणकर्मजातेःरूपरसगन्धस्पर्शाः ।उत्क्षेपणावक्षेपणाकुञ्चनप्रसारणगमनानीति |सदृशलिङ्गानांतुनद्यादीनां न भवति - गङ्गायमुने, मद्रकेकयौ, मथुरातक्षकशिले इति ।
ननु नद्यास्तावद् देशग्रहणेन ग्रहणं जनपदे देशशब्दस्य रूढत्वात् । यदाह - जनपदोहि देशः इति । नगरग्रहणं तु किमर्थम्, देशद्वारेणैव सिद्धत्वात् ? सत्यम् । ग्रामाणां मा भूत् । जाम्बवश्च ग्रामः शालूकिनी चेति विग्रहे जाम्बवशालूकिन्याविति । यदा तु सौर्यं च नगरं केतवता च ग्रामस्तयोर्द्वन्द्वे सौर्यकतवतमिति समाहार एव | नगराश्रयो विधिमुख्य इति ग्रामाश्रयः प्रतिषेधो न भवति । अथ कारूणामिति । कारवः शिल्पिनो रजकादयः। प्राणीत्यादि । तूर्य एव तूर्यक इत्यार्यापूरणार्थं स्वार्थे कः । अङ्गशब्दः प्रत्येकमभिसंबध्यते । मार्दङ्गिकपाणविकम् इति । मृदङ्गवादनं शिल्पमस्य, पणववादनं शिल्पमस्येत्यर्थे इकण् । मृदङ्गपणवमिति, अप्राणिजातित्वादेव भवति । सेनेत्यादि । हस्ति-नश्चाश्वाश्चेति विग्रहः । बहुत्वादन्यत्र न भवति । हस्ती चाश्वश्चेति हस्त्यश्वौ । क्षुद्रजन्तुकेत्यादि । क्षुद्रजन्तव एव क्षुद्रजन्तुकाः, कुत्सायां कः । क्षुद्रजन्तुकाश्च फलानि चेति विग्रहः । 'बहुत्वे' इत्यनुवर्तते, तेन यूकाश्च लिख्याश्चेति विग्रहः । अबहुत्वे न भवति - यूका च लिख्या चेति यूकालिख्ये | व्यञ्जनात् प्राग् बहुत्वाधिकारो ज्ञेयः । यद्यपि कृपणे अङ्गहीने शीलहीने च तण्डुलावयवे च क्षुद्रशब्दो वर्तते, तथापीह जन्तुशब्दस्य सान्निध्याद् अल्पपरिमाणं प्राणिनमाह । तत्र च स्मृतिभेदः
क्षुद्रजन्तुरनस्थिः स्यादथवा क्षुद्र एव यः।
शतं वा प्रसृतौ येषां केचिदानकुलादपि ॥ इति । अस्यार्थः- यस्यास्थीनि न विद्यन्ते, केवलं चर्मशोणितमांसमात्रमस्ति स क्षुद्रजन्तुः । स्मृत्यन्तरमाह - अथवा क्षुद्र एव यः इति । क्षोदयितुं शक्यः क्षुद्रशब्दार्थवशात् स्वशोणितरहितो मशकादिरेव । शतं वा प्रसृतौ येषामित्यन्या स्मृतिः । येषां शतेन प्रसृतेरञ्जलेरढ़ें पूर्यते, ते क्षुद्रजन्तवः । केचिद् आनकुलादपि इत्यपरा स्मृतिः प्रमाणम् ।