________________
नामचतुष्टया याये पञ्चमः समासपादः
३७३ इतरासां परस्परविरोधादिति । वृक्ष इत्यादि । पक्षे वृक्षादीनामितरेतरयोगः । प्लक्षन्यग्रोधा इत्यादयः । तथा अबहुत्वेऽपि । प्लक्षश्च न्यग्रोधश्च प्लक्षन्यग्रोधावित्यादि । न चाप्राणिजातित्वात् प्राप्तिरिह नियतदेशादिव्यवच्छेदेन व्यक्तिवचनस्य विवक्षितत्वात् । अत्रेमौप्लक्षन्यग्रोधौ तिष्ठतः । व्यञ्जन इत्यादि । विशेषा एव विशेषकाः, स्वार्थे कः । विभाषेत्यर्थः । अप्राणिजातित्वान्नित्ये प्राप्ते विकल्प उच्यते बहुत्वेऽबहुत्वे चेति | अद्रव्याणामित्यादि । समता, तुल्यता, समाहारः, इतरेतरयोग इत्यर्थः । पक्षे सुखदुःखे सहानवस्थानम् इह विरोधः ।अद्रव्याणामिति किम् ? शीतोष्णगुणयोगात् शीतोष्णे उदके इति नित्यं भवति । विरोधिनाम् इति किम् ? कामक्रोधौ | कामवानपि क्रोधाश्रयः स्यान्नास्ति विरोधः । तेषामिति चरणादीनामित्यर्थः । दधिपयसामिति बहुवचनेन गणो निर्दिश्यते यथा दधिपयसामिति । अन्यो दधिपयसादीनाम् इतरेतरयोग इत्यर्थः । यथा 'दधिपयसी, सर्पिर्मधुनी, मधुसर्पिषी, ब्रह्मप्रजापती' इत्यादयः । हस्त्यश्वाविति बहुत्वाभावात् सेनाङ्गत्वेऽपि न समाहारः । दधिघृता इति । व्यञ्जनविशेषकाणां समाहारस्य विभाषितत्वादिति । दर्शितेभ्योऽन्यत्र समाहारः इतरेतरयोगगश्च प्रवर्तते, नियमस्याभावात् ।। ३५३।
[क० च०]
द्वन्दै० । सौर्यकतवतमिति समाहार एवेति मुख्य इति । विसदृशलिङ्गनदीदेशनगराणामित्यत्र नगरशब्दस्योपादानान्मुख्य इत्यर्थः । ग्रामाश्रयप्रतिषेधस्य व्याख्यानतो लाभाद् गौणत्वमित्यर्थः । ननु कथं नगराश्रयस्य विधेः संभावनाऽपि येन मुख्यतेत्युच्यते । यावता देशावयवग्रामादौ व्यावृत्तिद्वारेण केवलनगराणां समाहारव्यवस्थापकत्वेन सफलं नगरग्रहणमिति ? सत्यम् । देशद्वारेणैव नगरस्य सिद्धौ यन्नगरग्रहणं तद् बोधयतिअवयवानां समाहारे विधातव्ये नगररूपावयवानामेव भवति, नान्येषां ग्रामादीनाम् । तेन व्यावृत्तिः केवलं ग्रामादिविषयैवेति न दोषः । द्वन्द्वैकत्वमिति षष्ठीसमासः । षष्ठी च वाच्यवाचकलक्षणा द्वन्द्वस्य वाच्यं यदेकत्वमित्यर्थः एकत्वं तु द्वन्द्वस्थपदानामर्थस्य विज्ञेयम् ।
अयमर्थः- पूर्वत्र द्वन्द्व इतीतरेतरयोगे समाहारे चोक्तं तत्रेतरेतरयोगे समुच्चीयमानप्रधानत्वादेकत्वं वाच्यं न स्यात् समाहारस्य समुच्चीयमानसमाहारत्वादेकत्वमेव